पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. ४ सू. २३ अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च, परिणामिन्यर्थे प्रतिसंक्रा- न्तेव तद् त्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनु- कारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते । तथा चोक्तम्-- न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ।। इति ।। २२ ।। अतश्चैतदद्भ्युपगम्यते— द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ १७५ स्वबुद्धिसंवेदनम् । यत्तदवोचद् 'वृत्तिसारूप्यमितरत्र' ( ११४) इति तदितः समुत्थितम् । चितेः स्वबुद्धिसंवेदनं बुद्धेस्तदाकारापत्तौ चितिप्रतिबिम्बाधारतया तद्रूपतापत्तौ सत्याम् । यथा हि चन्द्रमसः क्रियामन्तरेणापि संक्रान्तचन्द्रप्रति- बिम्बममलं जलमचलं चलमिव चन्द्रमसमवभासयत्येवं विनापि चितिव्यापार- मुपसंक्रान्तचितिप्रतिबिम्बं चित्तं स्वगतया क्रियया क्रियावतीमसंगतामपि संगतां चितिशक्तिमवभासयद्भोग्यभावामासादयद्भोक्तृभावमापादयति तस्या इति सूत्रार्थः । भाष्यमप्येतदर्थमसकृत्तत्र तत्र ( २१६; २ | २० ) व्याख्यातमिति न व्याख्यातमत्र । बुद्धिवृत्त्य विशिष्टत्वे ज्ञानवृत्तेरागममुदाहरति-तथा चोक्तम्-न पातालमिति । शाश्वतस्य शिवस्य ब्रह्मणो विशुद्धस्वभावस्य चितिच्छाया- पन्नां मनोवृत्तिमेव चितिच्छायापन्नत्वाच्चितेरप्य विशिष्टां गुहां वेदयन्ते । तस्या- मेव गुहायां तद् गुह्यं ब्रह्म तदपनये तु स्वयंप्रकाशमनावरणमनुपसर्गं प्रद्योतते चरमदेहस्य भगवत इति ॥ २२ ॥ तदेवं दृश्यत्वेन चित्तस्थ परिणामिनस्तदतिरिक्तः पुमानपरिणतिधर्मोपपा- दितः । संप्रति लोकप्रत्यक्षमप्यत्र प्रमाणयति–अतश्चैतदिति । अवश्यं चैतदित्यर्थः । द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् । यथा हि नीलाद्यनुरक्तं चित्तं नीलाद्यथं प्रत्यक्षेणैवावस्थापयत्येवं द्रष्ट्रच्छायापत्त्या तदनुरक्तं चित्तं द्रष्टारमपि प्रत्यक्षेणावस्थापयति । अस्ति हि द्धयाकारं ज्ञानं नीलमहं संवेझीति । तस्मा- ज्ज्ञेयवत्तज्ज्ञातापि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितों यथा जले चन्द्रमसो बिम्बम् । न त्वेतावता तदप्रत्यक्षम् । न चास्य जलगतत्वे तदप्रमाणमिति चन्द्ररूपेऽप्यप्रमाणं भवितुमर्हति । तस्माच्चित्तप्रतिबिम्बतया चैतन्यगोचरापि चित्तवृत्तिर्न चैतन्यगोचरेति । तदिदं सर्वार्थत्वं चित्तस्येति ।