पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृनटीकायुतव्यास माध्यसमेतम् [पा. ४ सू. २० न चाग्निरत्र दृष्टान्तः । न ह्यग्निरात्मस्वरूपमप्रकाश प्रकाशयति । प्रकाशञ्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । किञ्च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । तद्यथा-स्वात्म- प्रतिष्ठामाकाशं न परप्रतिष्ठमित्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते—क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति । एतत्स्त्र- बुद्धेरग्रहणे न युक्तमिति । १९ ।। १७३ एकसमये चोभयानवधारणम् ॥ २० ॥ न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तम् । क्षणिकवादिनो यद्भवनं ननु दृश्योऽग्निः स्वयंप्रकाशश्च । न हि यथा घटादयोऽग्निना व्यज्यन्त एवम मिरमथन्तरेणेत्यत आह—न चाग्निरत्रेति । कस्मात् ? न हीति । मा नामाग्नि- रग्न्यन्तरात्प्राकाशिष्ट विज्ञानात्तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभि- चार इत्यर्थः । प्रकाशञ्चायमिति । अयमिति पुरुषस्वभावात्प्रकाशाद्वयवच्छि- नत्ति । क्रियारूप: प्रकाश इति यावत् । एतदुक्तं भवति-या या क्रिया सा सा सर्वा कर्तृकरणकर्मसम्बन्धेन दृष्टा । यथा पाको दृष्टश्चैत्राग्नितण्डुल- सम्बन्धेन । तथा प्रकाशोऽपि क्रियेति तयापि तथा भवितव्यम् । सम्बन्धश्च मेदाश्रयो नाभेदे सम्भवतीत्यर्थः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । स्यादेतत् - मा भूद् ग्राह्यं चित्तम् । न हि ग्रहणास्याकारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिरित्यत आह- स्वबुद्धीति । बुद्धिश्चित्तम, प्रचारा व्यापाराः, सत्त्वाः प्राणिनः, चित्तस्य वृत्तिमेदाः क्रोधलोभादयः स्वाश्रयेण चित्तेन स्वविषयेण च सह प्रत्यात्ममनु- भूयमानाश्चित्तस्याग्राह्यतां विघटयन्तीत्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति — क्रुद्धोऽहमिति ॥ १६ ॥ एकसमये चोभयानवधारणम् । स्वाभासं विषयाभासं चित्तमिति ब्रुवाणो न तावद्येनैव व्यापारेणात्मानमवधारयति तेनैव विषयमपीति वक्तुमर्हति । न ह्यविलक्षणो व्यापारः कार्यमेदाय पर्याप्तः । तस्माद्वयापारभेदोऽङ्गीकर्तव्यः । न च वैनाशिकानामुत्पत्तिभेदातिरिक्तोऽस्ति व्यापारः । न चैकस्या एवोत्पत्तेरविल- क्षणायाः कार्यवैलक्षण्यसम्भवः तस्याकस्मिकत्व प्रसङ्गात् । न चैकस्योत्पत्ति- द्वयसम्भवः । तस्मादर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन्समय इति । तदेतद्भाष्येणोच्यते- -न चैकस्मिन्क्षण इति । तथा चोक्तं वैनाशिकैः- भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते । 25