पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटी का युतव्यास मान्य समेतम् [पासू. ४१ उदानजयाब्जलपङ्ककण्टकादिष्त्रसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥ समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनम् । तस्य क्रिया पञ्चतयो- प्राणो मुखनालिकागतिराहृदयवृत्तिः । समं नयनात्समान आनाभिवृत्तिः । अपनयनादपान अपादतलवृत्तिः । उन्नयनादुदान आशिरोवृत्तिः । व्यापी व्यान इति । एपां प्रधानः प्राणः । उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति, तां वशित्वेन प्रतिपद्यते ।। ३९ ।। समानजयाज्ज्वलनम् ॥ ४० ॥ जितसमानस्तेजस उपध्मानं कृत्वा ज्वलति ।। ४० ।। श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च । समस्तेन्द्रियवृत्ति- जीवनम् । प्राणादिलक्षणा प्राणादयो लक्षणं यस्याः सा तथोक्ता । द्वयी- न्द्रियाणां वृत्तिर्बाह्याभ्यन्तरी च । बाह्या रूगद्यालोचनलक्षणा | आभ्यन्तरी तु जीवनम् । स हि प्रयत्नभेदः शरीरोपगृहीतमारुतक्रियाभेदहेतुः । सर्वकरण- साधारणः । यथाहुः - । सामान्यकरणवृत्तिः प्राणाद्या वायवः वञ्च । ( सां० का० २१ ) इति । तैरस्य लक्षणीयत्वात्तस्य प्रयत्नस्य क्रिया कार्य पञ्चतयी । प्राण आ नासिकाग्रादा च हृदयादवस्थितः । अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन्समानः आ हृदयादा च नाभेरस्यावस्थानम् । मूत्र- पुरीषगर्भादीनामपनयन हेतुरपानः । आ नाभेरा च पादतलादस्य वृत्तिः । उन्नय- नादूर्ध्वं नयनाद्रसादीनामुदानः । आ नासिकाग्रादा च शिरसो वृत्तिरस्य । ब्यापी व्यानः । एषामुक्तानां प्रधानं प्राणः। तदुत्क्रमे सर्वोत्क्रमश्रुतेः 'प्राणमुत्का- मन्तमनु सर्वे प्राणा उत्क्रामन्ति " ( बृहदा० ४|४|२) इति तदेवं प्राणादीनां क्रियास्थानभेदेन भेदं प्रतिपाद्य सूत्रार्थमवधारयति – उदानजयादिति । उदाने कृतसंयमस्तजयाज्जलादिभिर्न प्रतिइन्यते । उत्क्रान्तिश्चाचिरादिमार्गेण भवति प्रायणकाले । तस्मात्तामुत्कान्ति वशित्वेन प्रतिपद्यते । प्राणादिसंयमान्त- द्विजये विभूतय एताः क्रियास्थान विजयादिभेदात्प्रतिपत्तव्याः ॥ ३९ ॥ समानजयाज्ज्वलम् । तेजसः शरीरस्योपध्मानमुत्तेजनम् ॥ ४० ॥ स्वार्थ संयमादन्वाचयशिष्टं श्रावणद्युक्तम् । संप्रति श्रावणाद्यर्थादेव संयमाच्छ्रा- वणादि भवतीत्याह – श्रोत्राकाशयोः संबन्धसंयमाहिव्यं श्रोत्रम्। संयमवि