पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११ ) सिद्धा भवति, नान्यथा । यतः सा गुणसाम्यावस्था, अतः सा सुखदुःखशून्या, जाग्रत्स्वप्ननिद्राशून्या च । प्रलयकाले असिद्धानां जीवानां मोहपूर्वकः करणलयो भवति, अत एव ते विदेहलीनाः प्रकृतिलोनाश्च भवन्ति यथायथम्, पुनश्च उत्थिता भवन्ति । कैवल्यपदभाजः पुरुषा न पुनर्गुणसम्बन्धयुक्ता भवन्ति, अत इदं पदं पुनरावृत्तिशून्यम् । बौद्धप्रत्यय विशेषात्मकं सुखं न कैवल्यावस्थायां कल्पनीयमिति सुविज्ञेयम् । क्वचित् केवली पुरुषः परमात्म- पदेन वोच्यते ( शान्ति १८७ | २३) | ईश्वरादिष्वपि परमात्मपदं प्रयुज्यते । एतादृशे शब्दप्रयोग संकरस्थले योगज्ञानमेव तत्त्वनिर्णायकहेतुरिति विज्ञेयम् । ससाधनसमाधिविचारः खलु योगविद्याया असाधारणं स्वकीयं वस्तु, सांख्ये तु पदार्थरूपेणैवैषामुल्लेखः । क्लेशानां विभूतीनां चर्चाऽपि योगाभ्यासोपकारि- णीति कृत्वा प्रपञ्चितोऽयं विषयो विस्तरतः पतञ्जलिना, पुराणादिषु योगविद्या- प्रस्तावेऽपि इमे विषया सुष्पदर्शिताः । चित्तस्य स्वरूपम्, वस्तुचित्तसंबन्धः, चित्तरोघः, एकाग्रता दिपरिणामाश्चेत्यादयो विषयाः कैवल्यार्थमवश्यं ज्ञेयाः, अत एव चतुर्थे पादे कैवल्य विषयकं तत्त्वज्ञानमान्वीक्षिकीपद्धत्या विवृतम् । विषये अस्मिन् बौद्धादयोऽर्वाग्दर्शिनो भ्रान्ता एव, अतस्तेषां चित्तं न शाश्वतनिरोध- युक्तं भवति, चित्तातिरिक्तस्य द्रव्यस्यान धिगतत्वादिति । व्यक्ताव्यक्तज्ञरूपाणां पदार्थानां प्रविभाग पूर्वकमसंकीर्ण ज्ञानं खलु सांख्ययोगिनां सम्यग्दर्शिना- मेवेति ज्ञेयम् । आर्पानार्पशास्त्रेषु' योगविद्याभ्युपगमः- न्यायशास्त्रे योगाभ्यासोऽभ्यु- पगत इति सूत्रतो भाष्यादिभ्यश्चावगम्यते । अत्र — 'समाधिविशेषाभ्यासात् ' (४ | २|३८) इति न्यायसूत्रमारभ्य 'यमनियमाभ्यासादात्मसंस्कारो योगा- च्चाध्यात्मविध्युपायैः' (४ | २ | ४६ ) इत्यन्तैः सूत्रैः योगविद्याभ्युपगमः कृतो गौतमेन । आह च वात्स्यायनः– “योगशास्त्राच्चाध्यात्मविधिः प्रतिपत्तव्यः । स पुनस्तपः, प्राणायामः, प्रत्याहारः, धारणा, ध्यानमिति उपायस्तु योगाचार- विधानमिति (४।२।४६ ) । अस्मिन् समाधावपि तत्त्वज्ञानमपेक्ष्यते इति सम्यगुक्तवान् वात्स्यायनः । समाध्यर्थमेकाग्रतादीनामभ्यासोऽपि न्यायशास्त्रे उक्तः । न्यायशास्त्रीयापवर्गचिन्ताऽपि सांख्ययोगानुगृहीतैवेति दृश्यते । १. यद्यपि आर्ष ज्ञानमेव सर्वमोक्षदर्शनमूलम्, तथापि केचन बौद्धादय आषं मूलं नैकान्ततः स्वीकुर्वन्ति, अतस्ते जन्मान्तरपापपुण्य विभूति-समाधि-निरोधादीन् स्वीकुर्वन्तोऽपि 'अनार्षा' इत्युच्यन्ते । शैवादयोऽपि न वेदमेकान्तत आश्रयन्ति, प्रत्युत आगमानपि, अतस्तेऽपि अनाषप्राया एव । प्रकरणान्तरे बौद्धशैवादिसंप्रदायगत- योगविषये लध्वो समीक्षा विधास्यते ।