पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पी. ३ सू. १७ ] पातंजलयोगसूत्रम् प्रतियोगित्वाद्वश्वरूप्यमिवापन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषेऽवस्था- पित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसंकेतेनावच्छिन्ना इयन्त इति सोऽपि तत्तदभिधानशक्तिः । एवं सर्वत्रोहनीयम् । स चैकैको वर्णों गकारादिः सहकारि यद्वर्णान्तरमोकारादि तदेव प्रतियोगि प्रतिसम्बन्धि यस्य स तथो- क्तः । तस्य भावस्तत्त्वं तस्माद्वैश्वरूप्यं नानात्वमिवापन्नो नतु नानात्वमापन्नः। तस्य तत्त्वादेव पूर्वो वर्णो गकार उत्तरेणौकारेण गणादिपदेभ्यो व्यावत्योंत्तरश्चौकारो गकारेण शोचिरादिपदेभ्यो व्यावर्त्य विशेषे गोत्ववाचके गोपदस्फोटेऽवस्थापितो ऽनुसंहारबुद्धौ । अयमभिसंधिः- अर्थप्रत्ययो हि वर्णैर्नियतक्रमतया परस्परम- संभवद्भिरशक्यः कर्तुम्। न च संस्कारद्वारेण|ग्नेयादीनामिव परमापूर्वी वा स्वर्गे वा जनयितव्येऽनियतक्रमाणामपि साहित्यमर्थबुद्धय पजनने वर्णानामिति सांप्र- तम् ; विकल्पासहत्वात्। स खल्वयं वर्णानुभवजन्यः संस्कारः स्मृतिप्रसवहेतुरन्यो वाग्नेयादिजन्य इवापूर्वाभिधानः; न तावदनन्तरः । कल्पनागौरवापत्तेः । स एव तावददृष्टपूर्वः कल्पनीयः । तस्य च क्रमवद्भिर्वर्णानुभवैरेकस्य जन्यत्वं न संभव- तीति तज्जातीयानेकावान्तरसंस्कारकल्पनेति गौरवम् । न चैष ज्ञापकहेत्वङ्ग- मज्ञातस्तदङ्गतामनुभवतीति । न खछु संबन्धोऽर्थप्रत्यायनाङ्गमज्ञातोऽङ्गतामुपैति । स्मृतिफलप्रसवानुमितस्तु संस्कारः स्वकारणानुभवविषयनियतो न विषयान्तरे प्रत्ययमाधातुमुत्सहते; अन्यथा यत् किञ्चिदेवैकैकमनुभूय सर्वः सर्वं जानीयादिति । न च प्रत्येकवर्णानुभवजनितसंस्कारपिण्डलब्धजन्मस्मृतिदर्पणसमारोहिणो वर्णाः समधिगतसहभावा वाचका इति सांप्रतम् । क्रमाक्रमविपरीतक्रमानुभूतानां तत्राविशेषेणार्थधीजननप्रसङ्गात् । न चैतत्स्मरणशानं पूर्वानुभववर्तिनीं परापरतां गोचरयितुमर्हति । तस्माद्वर्णेभ्योऽसंभवन्नर्थप्रत्यय एकपदानुभवमेव स्वनिमित्त- मुपकल्पयति। न चैष पदेऽपि प्रसङ्गः । तद्धि प्रत्येकमेव प्रयत्नमेदभिन्ना ध्वनयो परस्परविसदृशतत्तत्पदव्यञ्जकध्वनिभिस्तुल्यस्थानकरण निष्पन्नाः व्यञ्जयन्तः सदृशाः सन्तोऽन्योन्यविसदृशैः पदैः पदमेकं सदृशमापादयन्तः प्रतियोगिभेदेन तत्तत्सादृश्यानां मेदात्तदुपधानादेकमप्यनवयवमपि सावयवमिवानेकात्मकमि- वावभासयन्ति । यथा नियतवर्णपरिमाणसंस्थानं मुखमेकमपि मणिकृपाणदर्प- णादयो विभिन्नवर्णपरिमाणसंस्थानम नेकमादर्शयन्ति न परमार्थतः । सादृश्यो- पघानभेदकल्पिता भागा एव निर्भागस्य पदस्य वर्णाः । तेन तद्बुद्धिर्वर्णात्मना- पदमे स्फोटममेदमेव निर्भागमेव सभेदमिव सभागमिवालम्बते । अतो गोपद- स्फोटमे दस्यैकस्य गकारभागो गौरादिपदस्फोटसादृश्येन न निर्धारयति, स्वभागि- नमित्योकारेण विशिष्टो निर्धारयति । एवमोकारोऽपि भागः शोचिरादिपदसहशतया