पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. ३ खू./३ व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदानागतो, यदा करोति तदा वर्तमानो, यदा कृत्वा निवृत्तस्तदातीत इत्येवं धर्मधर्मिणो- लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते । नासौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् । यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां विनाश्यविनाशिनामेवं लिङ्ग- मादिमद् धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनाम्, तस्मिन्वि- कारसंज्ञेति । ११५ तत्रेदमुदाहरणं मृद्धम ण्डाकाराद्धर्माद्धर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्त- मानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षण- पृच्छति–कथमिति । उत्तरम् -अध्वनो व्यापारेणेति । दध्नः किल योऽना- गतोऽध्वा तस्य व्यापारः क्षोरस्य वर्तमानत्वं तेन व्यवहितत्वाद्धेतोः । यदा धर्मो दधिलक्षणः स्वव्यापारं दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदानागतः । यदा करोति तदा वर्तमानः । यदा कृत्वा निवृत्तः सन्नेव स्वव्यापाराद्दाधिकाद्यारम्भा- त्तदातीत इति । एवं त्रैकाल्येऽपि सत्त्वाद्धर्मधर्मिणोर्लक्षणानामवस्थानां च कौ- टस्थ्यं प्राप्नोति । सर्वदा सत्ता हि नित्यत्वम् । चतुर्णामपि च सर्वदा सत्त्वेऽसत्वे वा नोत्पादः । तावन्मात्रं च लक्षणं कूटस्थनित्यतायाः । न हि चितिशक्तेरपि कूटस्थनित्यायाः कश्चिदन्यो विशेष इति भावः । परिहरति-नासौ दोषः ? कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमोंऽन्यो- न्याभिभाव्याभिभावकत्वं, तस्य वैचित्र्यात् । एवदुक्तं भवति – यद्यपि सर्वदा सत्त्वं चतुर्णामपि गुणिगुणानां तथापि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकारा- विर्भावतिरोभावभेदेन परिणामशालितया न कौटस्थ्यम् । चितिशक्तेस्तु न स्वात्मभूत विकाराविर्भावतिरोभाव इति कौटस्थ्यम् । यथाहुः- नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति । इति। विमर्दवैचित्र्यमेव विकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति – यथा संस्थानं पृथिव्यादिपरिणामलक्षणमादिमद्धर्ममात्र विनाशि तिरोभावि शब्दादीनां शब्दस्पर्शरूपरसगन्धतन्मात्राणां स्वकार्यमपेक्ष्याविनाशिनामतिरो- भाविनाम् । प्रकृतौ दर्शयति — एवं लिङ्गमिति । तस्मिन्विकारसंज्ञा न त्वेवं विकारवती चितिशक्तिरिति भावः । तदेवं परीक्षक सिद्धां विकृतिं च प्रकृतिं चोदाहृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवैचित्र्यं धर्मलक्षणावस्थापरिणामवैचित्र्य हेतुमुदाइरति–तत्रेदमुदा-