पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८ ) सर्वविधैश्वर्यविनिर्मुक्तः खलु चिद्रूपः पुरुषः, यः 'अक्षरात् परतः परः' इति श्रुत्याऽभिधीयते । अयमेव अचिन्त्यः, अप्राणः, अमनाः, अव्यपदेश्यः, अलक्षण इत्युच्यते । बहुजीवदर्शनाजन्मादिव्यवस्थातश्च पुरुषा बहवः । पुरुषश्च अखण्डैकस्वरूपो देशकालातीतः न प्रकृतिर्नापि विकृतिः । (१) एका त्रिगुणात्मिका दैशिककालिकावयवैहींना जडा प्रकृतिः सर्व- वस्तूनां ग्राह्यग्रहणग्रहीतॄणामुपादानम् । प्राकृतमन्तःकरण मीश्वरताद्यनेक- धर्मयुक्तं भवति । प्रकृतिरियं स्थित्या गत्या च सदैव वर्तमानम् । (१०) कार्यमव्यक्तरूपेण उपादानकारणे विद्यते, तच्च हेतुभिर्व्यक्तीभवति । विकारभूतं कार्यं च धर्मलक्षणावस्थापरिणामैरन्वितं भवति । न चासद् उत्पद्यते, न च सतोऽत्यन्तनाशो भवति । योगस्वरूपं कैवल्यं च - इह शास्त्रे योगः समाधिः, स च संप्रज्ञातासंप्रज्ञात- भेदेन द्विधेति आचार्यः । ग्रहीतृग्रहणग्राह्यरूपाणि तत्त्वानि साक्षात्क्रियन्ते संप्रज्ञातयोगे, संप्रज्ञानस्यापि त्रैगुणिकत्वात् तत्रापि विरक्तं चित्तं तामपि ख्याति निरुणद्धि । यत्र चिद्रूपः पुरुष एवावतिष्ठते, सोऽसंप्रज्ञातयोगः । अयमेवा- त्मसाक्षात्कारः, यः ख्याति-परवैराग्य-निरोधानन्तरेण न सिद्धो भवति । असंप्र- ज्ञातारिश्च विवर्द्धमानः ( गुणचारितार्थ्ये सति ) शाश्वतिकं चित्तलयं साधयति । पुनरुत्थानहीनचित्तलये सति कैवल्यमन्यदा जीवन्मुक्तिरिति । यदा सम्यग् ज्ञानतः निर्गुणात्मज्ञानं न भवति, तदा योगी विदेहदेवप्रकृतिलीनरूपेणा- वतिष्ठते। योगतः सर्वास्मिभावसिद्धौ सर्वज्ञातृत्वादिसिद्धेरीश्वरभाव आविर्भवति, ततश्च तद्वैराग्यादपि दोषबीजक्षये कैवल्यं भवतीति योगिनां न्याय्या दृष्टिः । अत्रेदं विज्ञेयम् – अभ्यासपूर्वकं स्वेच्छया चित्तवृत्तेर्नियमनमेव योगोऽभि- प्रेतः, अत एव औषधादिप्रयोगे तमोभावाधिक्येन च यस्तामसं स्थैर्यमुदेति शरीरेन्द्रियबुद्धिषु, न तद् योग इति विवेच्यम् । हठयोगाभ्यासेन शोणितादोनां श्वासप्रश्वासयोर्वा रोधो न सम्यग् योगः, संस्कारादीनां क्षयाभावदर्शनात् । योगशास्त्रोपदिष्टे तत्त्वे शरीरप्राणादिरोधपूर्वकं यच् चित्तावस्थानं तत्त्वज्ञान- पूर्वकं रागद्वेषादिक्षयपूर्वकं च, तदेव योगपदेनाभिलष्यते आचार्यैः । अतएव प्राणायामासनादयोऽपि इह योगे तत्त्वज्ञानपूर्वकमेवाभ्यसनीयाः, अन्यथा अज्ञान- बीजक्षयाभावादुत्थानं भवेदेव । अव्यक्तलक्षणायाः शून्यता या भावनेऽपि चित्तं न संनिरुद्धं भवति, शून्यस्य त्रिगुणातीतत्वाभावात् । सोऽयं समाधिग्रह्यादि- भेदात् त्रिधा, अभ्यासकौशलभेदाच्च सवितर्कादिभेदयुक्त इति सूत्रभाष्यटीकादिषु स्पष्टम् । भिक्षुश्च योगसारसंग्रहे समाधिभेदादिकं पातञ्जलदर्शनशा सुष्टु निरूपयामासेति तत एवावगन्तव्यम् ।