पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यास माध्यसमेतम् [ पा. ३ सू. १३ निरोधसंस्काराद् निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मः संस्कारोऽभिभूयत इति ।। १० ।। सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥ सर्वार्थता चित्तधर्मः । एकाग्रतापि चित्तधर्मः । सर्वार्थतायाः क्षयस्तिरो- भाव इत्यर्थः । एकाग्रताया उदय आविर्भाव इत्यर्थः । तयोर्धर्मित्वेनानुगतं चित्तम् । तदिदं चित्तमपायोपजनयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरिणामः ॥ ११ ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यै- काग्रतापरिणामः ॥ १२ ॥ १०९ समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः । समाधि- चित्तमुभयोरनुगतं पुनस्तथैवा समाधिभ्रेषादिति । स खल्वयं धर्मिणश्चित्त- स्यैकाग्रतापरिणामः ॥ १२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः ॥ १३ ॥ संस्कारपाटवमपेक्षते न तु संस्कारमात्रमित्यत आह - तत्संस्कारमान्द्य इति । तदिति निरोधं परामृशति । ये तु नाभिभूयत इति पठन्ति ते तदा व्युत्थानं परामृशन्ति ॥ १० ॥ संप्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति — सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । विक्षिप्तता सर्वार्थता । सन्न विनश्य- तीति क्षयस्तिरोभावः । नासदुत्पद्यत इत्युदय आविर्भावः । आत्मभूतयोः सर्वार्थतैकाग्रतयोर्धर्मयोर्यावपायोपजनौ सर्वार्थताया अपाय एकाग्रताया उपज- नस्तयोरनुगतं चित्तं समाधीयते पूर्वापरीभूतसाध्यमानसमाधिविशेषणं भव- तीति ॥ ११ ॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः । ततः पुनः समाधेः पूर्वापरीभूताया अवस्थायाः निष्पत्तौ सत्यां शान्तोदिताव- तीतवर्तमानौ, तुल्यौ च तो प्रत्ययौ चेति तुल्यप्रत्ययौ । एकाग्रतायां तु द्वयोः सादृश्यम् । समाहितचित्तस्येति समाधिनिष्पत्तिदर्शिता, तथैवैकाग्रमेव । अवधिमाह—आ समाधिभ्रेषाद् भ्रंशादिति ॥ १२ ॥ प्रासङ्गिकं च वक्ष्यमाणोपयिकं च भूतेन्द्रियपरिणामं विभजते–एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । व्याचष्टे-एतेनेति ।