पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पांतक्ष योगसूत्रम् त्रयमेकत्र संयमः ॥ ४ ॥ तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयमः । एकविषयाणि त्रीणि साध- नानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥४॥ तज्जयात्प्रज्ञालोकः ॥ ५॥ तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोको, यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदीभवति ।। ५ ।। तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य संयमस्य जितभूमेर्यानन्तरा भूमिस्तत्र विनियोगः । न ह्यजिता- खाण्डिक्याय केशिध्वज उपसंजहार- क्षेत्रज्ञः करणी ज्ञानं करणं तदचेतनम् । निष्पाद्य मुक्तिकार्यं वे कृतकृत्यं निवर्तते ॥ (विष्णु पु. ६ |७|६२) इति ॥३॥ धारणा ध्यानं समाधिरित्येतत्त्रयस्य तत्र तत्र नियुज्यमानस्य प्रातिस्विकसंज्ञो- चारणे गौरवं स्थादिति लाघवायें परिभाषासूत्रमवतारयति- त्रयमेकत्र संयम इति । व्याचष्टे – एकविषयाणीति । वाचकत्वशङ्कामपनयति – तद्स्येति । तन्त्र्यते व्युत्पाद्यते योगो येन शास्त्रेण तत्तन्त्रम् । तद्भवा तान्त्रिकी। संयमप्रदेशाः परिणामत्रय संयमात् ( ३।१६ ) इत्येवमादयः ॥ ४ ॥ संयम विजयस्याभ्याससाधनस्य फलमाह-तज्जयात्प्रज्ञालोकः । प्रत्य- यान्तरानभिभूतस्य निर्मलप्रवाहेऽवस्थानमालोकः प्रज्ञायाः । सुगमं भाष्यम् ॥५॥ क्व पुनर्विनियुक्तस्य संयमस्य फलमेतदित्यत आह–तस्य भूमिषु विनि- योगः । भूमिं विशेषयति भाष्यकारः- तस्येति । जिताया भूमेर्यानन्तरा भूमिरवस्थाऽजिता तत्र विनियोगः । स्थूलविषये सवितर्फे समाधौ वशीकृते संयमेन संयमस्याविजिते निर्वितर्फे विनियोगः । तस्मिन्नपि वशीकृते सवि- चारे विनियोगः । एवं निर्विचारे विनियोग इत्यर्थः । अत एव स्थूलविषय- समापत्तिसिद्धौ सत्यां पुराणे तत्तदायुधभूषणापनयेन सूक्ष्मविषयः समाधिरव- तारित:- पा. ३सू. ६ ] ततः शङ्गगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ||८६|| यदा च धारणा तस्मिन्नवस्थानवती ततः । किरीट केयूमुखैभूषणै रहितं स्मरेत् ||८७|| तदेकावयवं देवं सोऽहं चेति पुनर्बुधः । कुर्यात्ततो ह्यइमिति प्रणिधानपरो भवेत् ||८|| 2.0Å ( विष्णु पु. ६/७/८६-८८)