पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २ सू. ४७] पातन्जलयोगसूत्रम् समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्यया सर्वमीप्सितमवितर्थ जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा यथाभूतं प्रजा- नातीति ॥ ४५ ॥ उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि वक्ष्यामः । तत्र- स्थिरसुखमासनम् ॥ ४६ ॥ तद्यथा पद्मासनं वीरासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिपदनं हस्तिनिषदनमुष्टनिषदनं समसंस्थानं स्थिरसुखं यथा- सुखं चेत्येवमादीनि ।। ४६ ।। प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥ समाधिसिद्धिरीश्वरप्रणिधानात् । न च वाच्यमीश्वरप्रणिधानादेव चेत्संप्रज्ञातस्य समाधेराङ्गिनः सिद्धिः कृतं सप्तभिरङगैरिति । ईश्वरप्रणिधान सिद्धो दृष्टादृष्टावान्तरव्यापारेण तेषामुपयोगात्। संप्रज्ञातसिद्धौ च संयोगपृथक्त्वेन दघ्न इव क्रत्वर्थता पुरुषार्थता च । न चेवमनन्तरङ्गता धारणाध्यानसमाधीनां संप्रज्ञा- तसिद्धौ । संप्रज्ञातसमानगोचरतयाङ्गान्तरेभ्योऽतद्गोचरेभ्योऽस्यान्तरङ्गत्वप्रतीतेः । ईश्वरप्रणिधानमपि हीश्वरगोचरं न संप्रज्ञेयगोचरमिति बहिरङ्गमिति सर्वमवदा- तम् । प्रजानातीति प्रज्ञापदव्युत्पत्तिदर्शिता ॥ ४५ ॥ उत्तरसूत्रमवतारयति–उक्ताः सह सिद्धिभिर्यम नियमाः । आसनादीनि वक्ष्याम इति । तत्र — स्थिरसुखमासनम् । स्थिरं निश्चलं यत्सुखं सुखावह तदासन मिति सूत्रार्थः । आस्थतऽत्र आस्ते वानेनेत्यासनम् । तस्य प्रभेदाना- तद्यथेति । पद्मासनं प्रसिद्धम् । स्थितस्यैकतरः पादो भून्यस्त एकतरश्चाकु- ञ्चितजानोरुपरि न्यस्त इत्येतद्वीरासनम् । पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात्तद्भद्रासनम् । सव्यमाकुञ्चितं चरणं दक्षिणजोर्वन्तरे निक्षिपेत्, दक्षिणं चाकुञ्चितं चरणं वामजङ्घोर्वन्तरे निक्षिपेत्, एतत्स्वस्तिकम् । उपविश्य लिष्टाङ्गुलिको लिष्टगुल्फौ भूमिश्लिष्टजङ्घोरुपादो प्रसार्य दण्डासन- मभ्यसेत् । योगपट्टकयोगात्सोपाश्रयम् । जानुप्रसारितबाहीः शयनं पर्यङ्कः । क्रौञ्चनिषदनादानि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात्प्रत्येतव्यानि । पाणिपादाग्राभ्यां द्वयोराकुञ्चितयोरन्योन्यसंपीडनं समसंस्थानम् । येन संस्थाने- नावस्थितस्य स्थेयं सुखं च सिध्यति तदासनं स्थिरसुखम् । तदेतत्तत्र भगवतः सूत्रकारस्य संमतम् । तस्य विवरणं यथासुखं चेति ॥ ४६ ॥ आसनस्वरूपमुक्त्वा तत्साधनमाह–प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ।