पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतब्यांसभाष्यसमेतम् [पा. २ सू. ३० यथाक्रममेवामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९ ।। तंत्र- अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः, उत्तरे च यम- नियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते, तद्वदा- तरूपकरणायैवोपादीयन्ते । तथा चोक्तम्- स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति । सत्यं यथार्थे वाङ्मनसे । यथा दृष्टं यथानुमितं यथा श्रुतं तथा वाङ्मनश्चेति । परत्र स्त्रबोधसंक्रान्तये वागुका सा यदि न वञ्चिता भ्रान्ता वा प्रेतिपत्तिबन्ध्या वा भवेदिति । एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतो- समाधयोऽष्टावङ्गानि । अभ्यासवैराग्यश्रद्धावीर्यादयोऽपि यथायोग मेतेष्वेव स्वरूपतो नान्तरीयकतयान्तर्भावयितव्याः ॥ २६ ॥ यमनियमाद्यङ्गान्युद्दिश्य यमनिर्देशकं सूत्रमवतारयति-तत्रेति । अहिं- सासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । योगाङ्गमहिंसामाह– सर्वथेति । ईदृशीमहिंसां स्तौति–उत्तरे चेति । तन्मूला इति । अहिंसामपरिपाल्य कृता अव्यकृतकल्या निष्फलत्वादित्यर्थः । तत्सिद्धिनरतयैवानुष्ठानम् । अहिंसा चेन्मूलमुत्तरेषां कथं तेऽहिंसासिद्धिपरा इत्यत आह -- तत्प्रतिपादनायेति । सिद्धिर्ज्ञानोत्पत्तिरित्यर्थ। । स्यादेतत् - अहिंसाज्ञानार्था यद्युत्तरे कृतं तैरन्यत एव तदवगमादित्यत आह-तद्वदातेति । यद्युत्तरे नानुष्ठीयेरन्नहिंसा मलिना स्यादसत्यादिभिरित्यर्थः । अत्रैवागमिकानां संमतिमाह -तथा चेति । सुगमम् । सत्यलक्षणमाह --यथार्थे वाङ्मनसे इति । यथाशब्दं साकाङ्क्ष पूरयति- यथा दृष्टमिति । प्रतिसबन्धिनं तथाशब्दं प्रतिक्षिपति तथा वाङ्मनश्च विवक्षायां कर्तव्यायामिति । अन्यथा तु न सत्यम् । एतत्सोपपत्तिकमाह - परत्र पुरुषे स्वबोधसंक्रान्तये स्वबोधसदृशबोधजननाय वागुक्तो चारता । अतः सा यदि न वञ्चिता वञ्चिका यथा द्रोणाचार्येण स्वतनयाश्वत्थाममरणमा 'युष्म- न्सत्यधनाश्वत्थामा हत' इति पृष्टस्य युधिष्ठिरस्य प्रतिवचनं हस्तिनमभिसंधाय 'सत्यं इतोऽश्वत्थामेति' । तदिदमुत्तस्योत्तरं न युधिष्ठिरस्य स्वबोधं संक्रामयति । स्वबोधो ह्यस्य हस्तिहननविषय इन्द्रियजन्मा । न चासौ संक्रान्तः किं त्वन्य एव तस्य तनयवधबोधो जात इति । भ्रान्ता वा भ्रान्तिजा । भ्रान्तिश्च विवक्षा- समये वा ज्ञेयार्थावधारणसमये वा । प्रतिपत्त्या बन्ध्या प्रतिपत्तिवन्ध्या । यथार्या-