पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुमानविषये इदं विज्ञेयं यत् सामान्यतः सर्वेषां प्रकृतिपुरुषादीनां सत्ताऽनुमानेन निश्चीयते, परन्तु अनुमानतः प्रमेयगताः सर्वे सूक्ष्मा विशेषा नावगम्यन्ते । यद्यप्यस्ति मतम् – 'धर्मब्रह्मविषयौ नानुमानगम्यौ' इति, परन्तु नेयमार्षी दृष्टिः । भवतु नाम अर्वागूदर्शिभिरब्रह्मचारिभिर्ब्रह्मादयः पदार्था नानु- मातुं शक्यन्ते, पारदर्शिषु कपिलादिष्वपि इयमशक्तिरासीदिति न कल्पनीयम् । कथं निर्गुणं पुरुषतत्त्वं सर्वविकारबीजं प्रधानं चानुमातुं शक्यते, तदेतत् सांख्ययोगविद्यायां विवृतमस्ति । आत्मज्ञानार्थं न्यायमार्जिता धीरावश्यकीति कृत्वा षष्टितन्त्रशास्त्रे अनुमानादीनां चर्चा कृतेति विज्ञायते । 'मन्तव्यचोप- पत्तिभिः', 'आगमेनानुमानेन ध्यानाभ्यासरसेन च' इत्यादीनि वचस्यत्र द्रष्टव्यानि । साक्षात्कारिणां योऽनुभवो विशेषज्ञानप्रधानः, न स सम्यक् शब्देनाभि- घीयते, न हि विशेषेण कृतसंकेतः शब्द इति । अत एव ऋतम्भरा प्रज्ञा श्रुता- नुमेयप्रज्ञाभ्यामन्यविषयेति योगविदः ( द्र० योगसूत्रम् १।४६) । योऽयं समाधिप्रज्ञानिर्ग्राह्यो विशेषः, न स सर्वथा शब्दगम्य इति कृत्वा श्रुत्यर्थविशदी- करणाय योगजज्ञानापेक्षा वर्तते । अत एव श्रुतिषु प्रवचन मेदतः आपातदृष्टया परस्परविरुद्धानि वचांसि दृश्यन्ते, तेषां समन्वयश्च स्थूलत उत्तरमीमांसापद्धत्या करणीयः, समन्वित - वाक्यार्थानां तात्त्विकं रहस्यं तु योगविद्यागम्यमेवेति । यदि नाम कश्चित् प्रेक्षावान् द्रष्ट-दृश्य-सत्कार्यवादांश्च विज्ञाय श्रुत्यर्थस्य मननं कुर्यात्, तर्हि स सर्वत्रैव सुसङ्गति प्रतीयात् । परम्पराभ्रंशतो यदि योगविद्याज्ञाने कश्चिद् दोष आपतेत्, तर्हि स प्रेक्षावान् बहुत्र न्यायबलेन स्वयमेव तं दोषं ज्ञातुमपि समर्थो भवेदिति । दोषाणां कृत्स्नशो ज्ञानं खलु योगजप्रज्ञापेक्षमित्यपि स्मार्यम् । सांख्ययोगविद्याप्रमेयनिर्धारणदृष्टिः सर्वैरिदमादौ विज्ञेयं यद् अस्यां विद्यायां द्वावेव मूलभूतौ पदार्थों - द्रष्टा, दृश्यं च । बहुविकारबीजभूतं दृश्यं परिणामशीलं चित्संयोगाद् बहुधा परिणमते । विकाराश्च 'सत्कार्यवाद'- दृष्टिमाश्रित्यैवेह व्याख्येयाः । मूलभूतं निमित्तं तु पुरुष एव, इच्छादयोऽन्तः- करणधर्मा अमौलिका अपि गौणानि निमित्तानि भवन्ति स्थूलविकारोत्पत्तय इति ज्ञेयम् । अत एवेश्वरसङ्कल्पसंभूतमिदं जगदिति मतमतात्त्विकदृष्टया सत्यम् न पुनस्तात्त्विकदृष्ट्या | ग्राह्यभूतं हिरण्यगर्भान्तःकरणं खलु, ब्रह्माण्डस्य साक्षा- दुपादानभूतं कालव्यापि द्रव्यम्' इति सांख्यनयः । तत्त्वतस्तु ऐशान्तःकरण- मपि त्रैगुणिकम्, अतस्त्रिगुणमेव सर्वोपादानमिति । ,