पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पी. २ सू. १९ ] पातञ्जलयोगसूत्रम् त्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थ कर्तव्यतया प्रयुक्तसामर्थ्याः संनिधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणै- कतमस्य वृत्तिमनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति । एतद्द्द्दृश्यमित्युच्यते । तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति । तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्द्दृश्यं पुरुषस्येति । तत्रेष्टानिष्ट गुणस्वरूपावधारणमविभागापन्नं भोगो, भोक्तुः स्वरूपावधारणपवर्ग जनयितव्ये सत्त्वं गुणः प्रधानम् । अङ्गे रजस्तमसी एवं मनुष्यशरीरे जनयि तव्ये रजः प्रधानमने सत्त्वतमसी । एवं तिर्यक्शरीरे जनयितव्ये तमः प्रधानमङ्गे सत्त्वरजसी । तेनैते गुणाः प्रधानत्ववेलायामुपदर्शितसंनिधानाः कार्योपजननं प्रत्युद्भूतवृत्तय इत्यर्थः । प्रधानशब्दश्च भावप्रधानः। यथा “द्वय कयोद्विवचनैकव- चने” (अष्टाध्यायी १|४|२२ ) इत्यत्र द्वित्वैकत्वयोरिति । अन्यथा द्वय केष्विति स्यात् । ननु तदा प्रधानमुद्भूततया शक्यमस्तीति वक्तुम् | अनुद्भूतानां तु तदङ्गानां सद्भावे किं प्रमाणमित्यत आह-गुणत्वेऽपि चेति । यद्यपि नोद्भूतास्तथापि गुणानामविवेकित्वात्संभूयकारित्वाच्च व्यापारमात्रेण सहकारितया प्रधानेऽन्तर्णी- तं सदनुमितमस्तित्वं येषां ते तथोक्ताः । ननु सन्तु गुणाः संभूयकारिणः सम- र्थाः, कस्मात् तत् पुनः कुर्वन्ति । न हि समर्थमित्येव कार्यं जनयति । मा भूदस्य कार्योपजननं प्रति विराम इत्यत आह-पुरुषार्थकर्तव्यतयेति । ततो निर्वर्तितनि- खिलपुरुषार्थानां गुणानामुपरमः कार्यानारम्भणमित्युक्तं भवति । ननु पुरुषस्यानु- पकुर्वतः कथं पुरुषार्थेन प्रयुज्यत इत्यत आह -संनिधिमात्रेति । ननु धर्मा- धर्मलक्षणमेव निमित्तं प्रयोजकं गुणानाम्, तत्किमुच्यते पुरुषार्थप्रयुक्ता इत्यत आह - प्रत्ययमन्तरेणेति । एकतमस्य सत्त्वस्य रजसस्तमसो वा प्रधानस्य स्वकार्ये प्रवृत्तस्य वृत्तिमितरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः । यथा च वक्ष्यति — “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्" ( ४ | ३ ) इति । एते गुणाः प्रधानशब्दवाच्या भवन्तीति संबन्धः । प्रधीयत आधीयते ( विधीयते-पाठा० ) विश्वं कार्य मेभिरिति व्युत्पत्त्यैतद् दृश्यमुच्यते । तदेवं गुणानां शीलमभिधाय तस्य कार्यमाह - तदेतदिति । सत्कार्यवाद- • सिद्धौ यद्यदात्मकं तत्तेन रूपेण परिणमत इति भूतेन्द्रियात्मकत्वं दीपयति- भूतभावनेत्यादिना । भोगापवर्गार्थमिति सूत्रावयवमवतारयति-तत्तु नाप्रयो- जनमपि तु प्रयोजनमुररीकृत्य प्रवर्तते । भोगं विवृणोति - तत्रेति । सुखदुःखे हि त्रिगुणाया बुद्धेः स्वरूपे । तस्यास्तथात्वेन परिणामात् । तथापि गुण- गततयावधारणे न भोग इत्यत आह-अविभागापन्नमिति । एतच्चासकृद्धि-