पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. १७ ] योगसूत्रम् तयोर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुदुःखस्य कारणमि त्यर्थः । तथा चोक्तम्-तत्संयोग हेतु विवर्जनात्स्यायमात्यन्तिको दुःखप्रती- कारः । कस्मात् ? दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात् । तद्यथा- पाद- तलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पादानधिष्ठानं पादत्राणव्यवहितेन वाधिष्ठानम् । एतत्त्रयं यो वेद लोके स तत्र प्रतीकार- मारभमाणो भेदजं दुःखं नाप्नोति । कस्मात् ? त्रित्वोपलब्धिसामर्थ्यादिति । अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम् । कस्मात् ? तपिक्रियायाः कर्मस्थत्वात् । सत्त्वे कमँणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे । दर्शितविषयत्वात्सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽनुतप्यत इति दृश्यते ।। १७ ।। पात “पुमानकर्ता येषां तु तेषामपि गुणैः क्रिया । कथमादौ भवेत्तत्र कर्म तावन्न विद्यते ॥ मिथ्याज्ञानं न तत्रास्ति रागद्वेषादयोऽपि वा । मनोवृत्तिर्हि सर्वेषां न चोत्पन्नं मनस्तदा ॥" इति शङ्कामपनयति--तयोर्हग्दर्शनक्त्योरनादिरर्थकृतः संयोगो हेयहेतुः । सत्यम् । न स्वाभाविकः संबन्धो, नैमित्तिकस्तु । न चैवमादिमान् । अनादि- निमित्तप्रभवतया तस्याप्यनादित्वात् । क्लेशकर्मतद्वासनासंतानश्चायमनादिः प्रतिसर्गावस्थायां च सहान्तःकरणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनस्ताहगेव प्रादुर्भवति, वर्षापाय इवोद्भिज्जभेदो मृद्भावमुपगतोऽपि पुनर्वर्षासु पूर्वरूप इत्यस- कृदावेदितं प्राक् (१।१६)। भाविततया संयोगस्याविद्या कारणम्, स्थितिहेतुतया पुरुषार्थः कारणम् । तद्वशेन तस्य त्थितेः। तदिदमुक्तमर्थकृत इति । तथा चोक्तमिति । पञ्चशिखेन तत्संयोगो बुद्धिसंयोगः स एव हेतुर्दुःखस्य । तस्य विवर्जनात्स्याद- यमात्यन्तिको दुःखप्रतीकारः । अर्थात्तदपरिवर्जने दुःखमित्युक्तं भवति । तत्रैवात्य- मतप्रसिद्धं निदर्शनमाह - तद्यथेति । पादत्राणमुपानत् । स्यादेतत्- गुणसंयोग- स्तापहेतु रित्युच्यमाने गुणानां तापकत्वमभ्युपेयम् । न च तपिक्रियाया अस्त्या- देखि कर्तृस्थो भावो येन तप्यमन्यन्नापेक्षेत । न चास्यास्तप्यतया पुरुषः कर्म । तस्यापरिणामितया क्रियाजनितफलशालित्वायोगात् । तस्मात्तपेस्तप्यव्याप्तस्य तन्निवृत्तौ निवृत्तिमवगच्छामो ज्वलनविरहेणेव धूमाभावमित्यत आह -अ- त्रापि तापकस्येति । गुणानामेव तप्यतापकभावः । तत्र मृदुश्वात्पादतलवत्सत्त्वं तप्यम् । रजस्तु तीव्रतया तापकमिति भावः । पृच्छति-कस्मादिति । सत्त्वमेव तप्यं न तु पुरुषः । उत्तरम् - तपिक्रियाया इति । तत्किमिदानीं पुरुषो न तप्यते । तथा चाचेतनस्यास्तु सत्त्वस्य तापः किं नश्छिन्नमित्यत आह-दर्शितविषयत्वात्सत्वे.