पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. २ सू. १५ द्व पमोहकृतोऽप्यस्ति कर्माशयः, तथा चोक्तम् । (भाष्य २।४ द्र०)। नानुपहत्य भूतान्युपभोगः संभवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशय इति । विषयसुखं चाविद्येत्युक्तम् । या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम् । या लौल्यादनुपशान्ति- स्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात् ? यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणा- मिति । तस्मादनुपायः सुखस्य भोगाभ्यास इति । स खल्वयं वृश्चिकविप- भीत इवाशीविषेण दृष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति । मुह्यति वा । रागसमये द्वेषमोहयोरदर्शनादित्यत आह-तथा चौतमिति । विच्छि- नावस्थान्क्लेशानुपपादयद्भिरस्माभिः (२।४) । तदनेन वाङ्मनसप्रवृत्तिजन्मनी पुण्यापुण्ये दर्शिते । रागादिजन्मनः कर्तव्यमिदमिति मानसस्य संकल्पस्य साभिलाषत्वेन वाचनिकत्वस्याप्यविशेषात् । यथाहुः - "साभिलाषश्च संकल्पो वाच्यार्थान्नातिरिच्यते ।” इति । शारीरमपि कर्माशयं दर्शयति- नानुपह्त्येति । अत एव धर्मशास्त्रकाराः "पञ्च सूना गृहस्थस्य" (मनु. ३१६८) इत्याहुः । स्यादेतत् –—न प्रत्यात्मवेद- नीयस्य विषयसुखस्य प्रत्याख्यानमुचितं योगिनामनुभवविरोधादित्यत आह विषयसुखं चाविद्येत्युक्तमिति । चतुर्विधविपर्यासलक्षणामविद्यां दर्शयद्भिरिति । नापातमात्रमाद्रियन्ते वृद्धा । अस्ति खल्वापाततो मधुविषसंपृक्तान्नोपभोगेऽपि सुखानुभवः प्रत्यात्म वेदनीयः । किं त्वायत्यामसुखम् । इयं च दर्शिता भगवतैव- "विषयेन्द्रिय संयोगाद्यत्तद ग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥” (गी. १८१३८) इति । चोदयति — या भोगेष्विति। न वयंविषय ह्लादं सुखमातिष्ठामहे, कित्व- तृप्यतां पुंसाम् तत्तद्विषयप्रार्थनापरिक्लिष्टचेतसां तृष्णैव महद्दुःखम् । न चेयमुपभोगमन्तरेण शाम्यति । न चास्याः प्रशमो रागाद्यनुविद्ध इति नास्य परिणामदुःखतेति भावः । तृप्तेस्तृष्णाक्षयाद्धेतोरिन्द्रियाणामुपशान्तिरप्रवर्तनं विषयेष्वित्यर्थः । एतदेव व्यतिरेकमुखेन स्पष्टयति – या लौल्यादिति । परि- हरति - न चेन्द्रियाणामिति । हेतावनोः प्रयोगः । सत्यं तृष्णाक्षयः सुखमनव- द्यम् । तस्य तु न भोगाभ्यासो हेतुरपि तु तृष्णाया एव तद्विरोधिन्याः । यथाहुः- “न जातु कामः कामानामुपभोगेन शाम्यति । - हविषा कृष्णवमेव भूय एवाभिवर्धते । (महाभा० आदि. ८५।१२)