पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायु तव्यासभाष्यसमेतम् [पा. १सू. १३ तस्माजन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानो- पसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मिलित्वा मरणं प्रसाध्य संमूच्छित एकमेव जन्म करोति । तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यत इति । असौ कर्माशयो जन्मायुर्भोग हेतुत्वात्त्रिविपाकोऽभिधीयत इति । अत एकभविकः कर्माशय उक्त इति । no दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वाद्, द्विविपाकारम्भी वा भोगायुर्हेतुत्वान्नन्दीश्वरवन्नहुषवद्वेति । क्लेशकर्मविपाकानुभव निर्वर्तिता - भिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाततमित्येता अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय एष एवैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासना- स्ताश्चानादिकालीना इति । तदेवं पक्षत्रये निराकृते पारिशेष्यादनेकं कर्मैकस्य जन्मनः कारणमिति पक्षो व्यवतिष्ठत इत्याइ–तस्माज्जन्मेति । जन्म च प्रायणं च जन्मप्रायणे। तयोरन्तरं मध्यम् । तस्मिन्विचित्रसुखदुःखफलोपहारेण विचित्रः । यदत्यन्तमुद्भूतमनन्तरमेव फलं दास्यति तत्प्रधानम् । यत्तु किञ्चिद्विलम्बेन तदुपसर्जनम्। प्रायणं मरणम् । तेनाभिव्यक्तः स्वकार्यारम्भणाभिमुखमुपनीत एकप्रघट्टकेन युगपत्संमूर्छितो जन्मादिलक्षणे कार्ये कर्तव्य एकलोलीभावमापन्न एकमेव जन्म करोति, नानेकम् । तच्च जन्म मनुष्यादिभावस्तेनैव कर्मणा लब्धायुष्कं कालभेदान्नियतजीवितं भवति । तस्मिन्नायुषि तेनैव कर्मणा भांगः सुखदुःखसाक्षात्कारः स्वसंबन्धितया संपद्यत इति । तस्मादसौ कर्माशयो जात्यायुर्भोग हेतुत्वात्त्रिविपाकोऽभिधीयते । औत्सर्गिकमुपसंहरति-अत एकभविकः कर्माशय उक्त इति । एको भव एकभवः । पूर्वकाल ( अष्टाध्यायी २|१|४६ ) इत्यादिना समासः । एकभवोऽस्यास्तीति मत्वर्थीयष्ठन् । क्वचित्पाठ ऐकभविक इति । तत्रैकभवशब्दाद्भवार्थे ठक्प्रत्ययः । एकजन्मावच्छिन्नमस्य भवनमित्यर्थः । तदेवमौत्सर्गिकस्यैक भविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्मवेदनीयस्यैहिक- स्य कर्मणस्त्रिविपाकत्वं व्यवच्छिनत्ति–दृष्टेति । नन्दीश्वरस्य खल्वष्टवर्षाव- च्छिन्नायुषो मनुष्यजन्मनस्तीव्रसंवेगाधिमात्रोपायजन्मा पुण्यभेद आयुर्भोगहेतु- त्वाद् द्विविपाकः । नहुषस्य तु पाणिप्रहारविरोधिनागस्त्यस्येन्द्रपदप्राप्तिहेतुनैव कर्मणायुषो विहितत्वादपुण्यभेदी भोगमात्रहेतुः । ननु यथैकभविकः कर्माशय- स्तथा कि क्लेशवासना भोगानुकूलाश्च कर्मविपाकानुभववासनाः । तथा च मनु- ध्यतिर्यग्योनिमापन्नो न तज्जातीयोचितं भुञ्जीतेत्यत आह—क्लेशेति । संमूहि- 320