पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यांसभाप्यसमेतम् [पा. २. सू. १० मानागमैरसंभावितो मरणत्रास उच्छेददृष्टयात्मकः पूर्वजन्मानुभूतं मरण- दुःखमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञात- पूर्वापरान्तस्य रूढः । कस्मात् ? समाना हि तयोः कुशलाकुशलयोर्मरण- दुःखानुभवादियं वासनेति ॥ ९ ॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ।। १० ।। जातमात्रस्य दुःखबहुलस्य निकृष्टतमचैतन्यस्य । अनागन्तुकत्वे हेतुमाह- प्रत्यक्ष इति । प्रत्यक्षानुमानागमैः प्रत्युदिते जन्मन्यसंभावितोऽसंपादितो मरणत्रास उच्छेदहयष्टात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । अयमभिसंधिः - जातमात्र एव हि बालको मारकवस्तुदर्शनाद्वेपमानः कम्पविशे- पादनुमितमरणप्रत्यासत्तिस्ततो बिभ्यदुपलभ्यते । दुःखाद्दुःखहेतोश्च भयं दृष्टम् । न चास्मिञ्जन्मन्यनेन मरणमनुभूतमनुमितं श्रुतं वा, प्रागेवास्य दुःखत्वं तद्धेतुत्वं वावगम्यते। तस्मात्तस्य तथाभूतस्य स्मृतिः परिशिष्यते । न चेयं संस्कारादृते । न चायं संस्कारोऽनुभवं विना । न चास्मिञ्जन्मन्यनुभव इति प्राग्भवीयः परिशिष्यत इत्यासीत्पूर्वजन्मसंबन्ध इति । तथापदं यथापदमाकाङ्क्षत इत्यर्थप्राप्ते यथापदे सति यादृशो वाक्यार्थो भवति तादृशं दर्शयति--यथा चायमिति । अत्यन्तमूढेषु मन्दतमचैतन्येषु । विद्वत्तां दर्शयति—विज्ञातपूर्वापरान्तस्य । अन्तः कोटिः। पुरुषस्य हि पूर्वा कोटिः संसार उत्तरा च कैवल्यम्। सैव विज्ञाता श्रुतानुमानाभ्यां येन स तथोक्तः। सोऽयं मरणत्रास आ कृमेरा च विदुषो रूढः प्रसिद्ध इति । नन्वविदुषो भवतु मरणत्रासो विदुषस्तु न संभवति विद्ययोन्मूलितत्वात् । अनुन्मूलने वा मरणत्रासस्य स्यादत्यन्तसत्त्वमित्याशयवान्पृच्छति-कस्मादिति । उत्तरमाह—समाना हीति । न संप्रज्ञातवान्विद्वानपि तु श्रुतानुमितविवेक इति भावः ॥ ६ ॥ तदेवं क्लेशा लक्षिताः। तेषां च हेयानां प्रसुप्ततनुविच्छिन्नोदाररूपतया चत- स्रोऽवस्था दर्शिताः। कस्मात्पुनः पञ्चमी क्लेशावस्था दग्धबीजभावतया सूक्ष्मा न सूत्रकारेण कथितेत्यत आह—ते प्रतिप्रसवहेयाः सूक्ष्माः । यत्किल पुरुषप्रयत्न- गोचरस्तदुपदिश्यते । न च सूक्ष्मावस्थाहानं प्रयत्नगोचरः । किं तु प्रतिप्रसवेन कार्यस्य चित्तस्यास्मितालक्षणकारणभावापत्त्या हातव्येति । व्याचष्टे त इति । सुगमम् ॥ १०॥