पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ पा. २ सू. ३ ] पातञ्जलयोगसूत्रम् स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणि- धानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा ॥ १ ॥ स हि क्रियायोगः- समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥ स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनू करोति । प्रतनू- कृतान्क्लेशान्प्रसंख्या नाग्निना दुग्धवीजकल्पानप्रसवधर्मिणः करिष्यतीति, तेषां तनू करणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥ अथ के क्लेशाः कियन्तो वेति ? अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ॥ ३ ॥ प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्मपा- रायणादयः । परमगुरुर्मंगवानीश्वरस्तस्मिन् । यत्रेदमुक्तम्- “कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥” इति । तत्फलसंन्यासो वा । फलानभिसंधानेन कार्यकरणम् । यत्रेदमुक्तम्- “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ( भ.गी. २॥४७ ) इति ॥१॥ तस्य प्रयोजनाभिधानाय सूत्रमवतारयति —स हीति । सूत्रं – समाधि- भावनार्थः क्लेशतनूकरणार्थञ्च । ननु क्रियायोग एव चेत्क्लेशान्प्रतनूकरोति कृतं तर्हि प्रसंख्यानेनेत्यत आह - प्रतनूकृतानीति । क्रियायोगस्य प्रतनूकरण- मात्रे व्यापारो न तु बन्ध्यत्वे क्लेशानाम् । प्रसंख्यानस्य तु तद्वन्ध्यत्वे । दग्धबीजकल्पानिति बन्ध्यत्वेन दग्धकलमबीजसारूप्यमुक्तम् । स्यादेतत्- प्रसंख्यानमेव चेत्क्लेशानप्रसवधर्मिणः करिष्यति, कृतमेषां प्रतनूकरणेनेत्यत आह—तेषामिति । क्लेशानामतानवे हि बलवद्विरोधिग्रंस्ता सत्त्वपुरुषान्यता- ख्यातिरुदेतुमेव नोत्सहते प्रागेव तद्वन्ध्यभावं कर्तुम् । प्रविरलोकृतेषु तु क्लेशेषु दुर्बलेषु तद्विरोधिन्यपि वैराग्याभ्यासाभ्यामुपजायते । उपजाता च तैरपरामृष्टा- नभिभुता नैव यावत्परामृश्यत इति । सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा । अतीन्द्रियतया सूक्ष्मोऽस्या विषय इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते । कुतः १ यतः समाप्ताधिकारा समाप्तोऽधिकारः कार्यारम्भणं गुणानां यथा हेतुभूतया सा तथोक्तेति ॥ २ ॥ पृच्छति—अथेति । अविद्येति सूत्रेण परिहारः । अविद्यास्मितारागद्वेषा-