पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् प्रज्ञा. सा पुनः- [ [ पा. १ सू. ४९ फाय विशेषार्थत्वात् ॥ ४९ ॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया श्रुतमागमविज्ञानं तत्सामान्यविषयम् । न ह्यागमेन शक्यो विशेषोऽभि- धातुम् । कस्मात् ? न हि विशेषेण कृतसंकेतः शब्द इति । तथानुमानं सामान्यविषयमेव । यत्र प्राप्तिस्तत्र गतिर्यत्र न प्राप्तिस्तत्र न गतिरित्युक्तम् (द्र० १।७ भाष्य) । अनुमानेन च सामान्येनोपसंहारः। तस्माच्छुतानुमान- विषयो न विशेषः कश्चिदस्तीति । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति–भूतसूक्ष्मगतो वा पुरुषगतो वा । तस्माच्छुतानुमानप्रज्ञा- भ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ॥ ४९ ।। स्यादेतत् — आगमानुमानगृहीतार्थविषयीभावनाप्रकर्षलब्धजन्मा निर्विचा- रागमानुमानविषयमेव गोचरयेत् । न खल्वन्यविषयानुभवजन्मा संस्कारः शक्तोऽ- न्यत्र ज्ञानं जनयितुमतिप्रसङ्गात् । तस्मान्निर्विचारा चेहतंभरागमानुमानयो- रपि तत्प्रसङ्ग इत्यत आह --! - श्रुतानुमानेत्यादि । बुद्धिसत्त्वं हि प्रकाशस्वभावं सर्वार्थदर्शनसमर्थमपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति । यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमनवद्यवैशारद्यमुद्दयोतते तदास्या- तिपतितसमस्तमान मेयसीम्नः प्रकाशानन्त्ये सति किं नाम यन्न गोचर इति भावः । व्याचष्टे – श्रुतमागमविज्ञानं तत्सामान्यविषयम् इति । कस्मात् ? न ह्यागमेन शक्यो विशेषोऽभिधातुम् । कुतः ? यस्मादानन्त्याद्वयभिचाराच्च न विशेषेण कृतसंकेतः शब्दः । यस्मादस्य विशेषेण सह न वाच्यवाचक संबन्धः प्रतीयते । न च वाक्यार्थेऽपीदृशो विशेषः संभवति । अनुमानेऽपि लिङ्गलिङ्गि- संबन्धग्रहणाधीनजन्मनि गतीरेषैवेत्याह—तथानुमानमिति । यत्र प्राप्तिरि- त्यत्र यत्रतत्रशब्दयोः स्थानपरिवर्तनेन व्याप्यव्यापकभावोऽवगमयितव्यः । अतोऽ- त्रानुमानेन सामान्येनोपसंहारः । उपसंहरति - तस्मादिति । तत्सामान्यविषयमित्यत अस्तु तर्हि संबन्धग्रहानपेक्षं लोकप्रत्यक्षं न आह—न चास्येत्यादि । मा भूत्संबन्धग्रहाधीनं लोकप्रत्यक्षम्, इन्द्रियाधीनं तु भवत्येव । न चेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः । ननु च यद्यागमानुमानप्र- त्यक्षागोचरो विशेषस्तर्हि नास्ति, प्रमाणविरहादित्यत आहन चेति । न हि प्रमाणं व्यापकं कारणं वा प्रमेयस्य येन तन्निवृत्तौ निवर्तेत । नो खलु कलावतश्चन्द्रस्य परभागवर्तिहरिणसद्भावं प्रति न संदिहते प्रामाणिका 12