पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ पा. १ सू. ३५] पातञ्जलयोगसूत्रम् विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥ भवति नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित् । तालुनि रूपसंत्रित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्द- संविदित्येता वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्तीति । एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्या- दिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या । यद्यपि हि तत्तच्छास्त्रानुमाना- चार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादन- सामर्थ्यात्, तथापि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपदेशोपोइलनार्थमेवावश्यं कश्चिद् विशेषः प्रत्य- क्षीकर्तव्यः। तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सुसूक्ष्मविषयमण्या- पवर्गाच्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते । अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायामुपजातायां चित्तं समर्थं स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति । तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥ णोति --विधारणं प्राणायामः । रेचितस्य प्राणस्य कौष्ठयस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसा प्रवेशनम् । तदेताभ्यां प्रच्छर्दनविधारणाभ्यां वायोर्लघूकृतशरीरस्य मनः स्थितिपदं लभते । अत्र चोत्तरसूत्रगतात्स्थितिनि- बन्धनीति पदात्स्थितिग्रहणमाकृष्य संपादयेदित्यर्थप्राप्तेन संबन्धनीयम् ||३४|| स्थित्युपायान्तरमाह–विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति- निवन्धनी । व्याचष्टे – नासिकाग्रे धारयत इति । धारणाध्यानसमाधीनकुर्व- तस्तज्जयाद्या दिव्यगन्धसंवित्तत्साक्षात्कारः । एवमन्यास्वपि प्रवृत्तिषु योज्यम् । एतच्चागमात्प्रत्येतव्यं नोपपत्तितः । स्यादेतत् – किमेतादृग्भिर्वृत्तिषु कैवल्यं प्रत्यनुपयोगिनीभिरित्यत आह - एता वृत्तयोऽल्पेनैव कालेनोत्पन्नाश्चित्त- मीश्वरविषयायां वा विवेकख्यातिविषयायां वा स्थितौ निबध्नन्ति । नन्वन्य- विषया वृत्तिः कथमन्यत्र स्थिति निबध्नातीत्यत आह-संशयं विधमन्ति अपसारयन्ति अत एव समाधिप्रज्ञायामिति । वृत्त्यन्तरराणामप्यागमसिद्धानां विषयवत्त्वमतिदिशति-- एतेनेति । नन्वागमादिभिरवगतेष्वर्थेषु कुतः संशय इत्यत आह -- यद्यपि हीति । श्रद्धामूलो हि योग उपदिष्टार्थैकदेशप्रत्यक्षी- ३५ स य ए य व २ र मु ६ a 3