पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. १ सू. १९ स खल्वयं द्विविधः - उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति- २१ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥ विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपद्मिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाइयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपद्मिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ।। १९ ।। निरोधसमाधेरवान्तरभेदं हानोपादानाङ्गमादर्शयति- –स खल्वयं निरोध- समाधिद्विविधः - उपायप्रत्ययो भवप्रत्ययश्च । उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः । भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या, भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाऽव्यक्तमहदहंकारपञ्चत- न्मात्रेष्वनात्मस्वात्मख्यातिस्तौष्टिकानां वैराग्यसंपन्नानाम् । स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः । तत्र तयोर्मध्य उपायप्रत्ययो योगिनां मोक्षमाणानां भवति । विशेषविधानेन शेषस्य मुमुक्षुसंबन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह- भवप्रत्ययो विदेहप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्वयाचष्टे - विदेहानां देवानां भूतेन्द्रियाणामन्यतममात्मत्वेन प्रतिपन्नास्तदुपासनया तद्वा- सनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कार- मात्रावशेषमनसः षाट्कौशिकशरीररहिता विदेहाः। ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः । अवृत्तिकत्वं च कैवल्येन सारूप्यं, साधिकार संस्कारशेषता च वैरूप्यम् । संस्कारमात्रोपभोगेनेति क्वचि त्पाठः । तस्यार्थः—संस्कारमात्रमेवोपभोगो यस्थ न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्त्यतिक्रामन्ति पुनरपि संसारे विशन्ति । तथा च वायुप्रोक्तम्- भवप्रत्ययः । “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णम्” इति । तथा प्रकृतिलयाश्चाव्यक्तमहदहंकारपञ्चतन्मात्रेष्यन्यतममात्मत्वेन प्रतिपन्ना- स्तदुपासनया तवासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीना- चेतसोऽचरिता- मन्यतमे लीनाः । साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद्यदि विवेकख्यातिमपि जनयेदजनितसत्त्वपुरुषान्यताख्यातेस्तु स्यास्ति साधिकारतेति । साधिकारे चेतसि प्रकृतिलीने कैवल्यपद- मिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाञ्चित्तमिति । प्रकृति- साम्यमुपगतमध्यवधि प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षा-