पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृत टीकायुतव्यासभाष्यसमेतम् [ पा. १सू. ५ क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणा- धिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अभ्यक्लिष्टाः । क्लिष्टच्छि- द्रेष्वप्यक्लिष्टा भवन्ति, अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते संस्कारच वृत्तय इति । एवं वृत्तिसंस्कार- ९ वृत्तिरूपोऽवयव्येकस्तस्त्र प्रमाणादयोऽवयवाः पञ्च । ततस्तदवयवा पञ्चतयी पञ्चा- वयवा वृत्तिर्भवति । ताश्च वृत्तयश्चैत्र मैत्रादिचित्तभेदाद्वह्वय इति बहुवचनमुप- पन्नम् । एतदुक्तं भवति–चैत्रो वा मैत्रो वान्यो वा कश्चित्सर्वेषामेव तेषां वृत्तयः पञ्चतथ्य एव नाधिका इति । चित्तस्येति चैकवचनं जात्यभिप्रायम् । चित्तानामिति तु द्रष्टव्यम् । तासामवान्तरविशेषमनुष्ठानोपयोगिनं दर्शयति- क्लिष्टाक्लिष्टा इति । अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्यास्ता अपि परेण वैरा- ग्येणेति । अस्य व्याख्यानं– क्लेशहेतुका इति । क्लेशा अस्मितादयो हेतवः प्रवृत्तिकारणं यासां वृत्तीनां तास्तथोक्ताः । यद्वा पुरुषार्थप्रधानस्य रजस्तमो- मयीनां हि वृत्तीनां क्लेशकारणत्वेन क्लेशायैव प्रवृत्तिः। क्लेशः क्लिष्टं तदासाम- स्तीति क्लिष्टा इति । यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिरत एव कर्माशयप्रचय- क्षेत्रीभूताः। प्रमाणादिना खल्वयं प्रतिपत्तार्थमवसाय तत्र सक्को द्विष्टो वा कर्मा- शयमाचिनोतीति भवन्ति धर्माधर्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा इति । अक्लिष्टा व्याचष्टे – ख्यातिविषया इति। विधूतरजस्तमसो बुद्धिसत्त्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः ख्यातिस्तया विषयिण्या तद्विषयं सत्त्वपुरुषविवेक- मुपलक्षयति । तेन सत्त्वपुरुषविवेकविषया यतोऽत एव गुणाधिकारविरोधिन्यः । कार्यारम्भणं हि गुणानामधिकारी विवेकख्यातिपर्यवसानं च तदिति चरिताधि- काराणां गुणानामधिकारं विरुन्धन्तीति । अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः । स्यादेतद् — वीतरागजन्मादर्शनाक्लिष्ट वृत्तय एव सर्वे प्राणभृतः । न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टा वृत्तयः । न चामूषां भावेऽपि कार्यकारिता । विरोधिमध्यपातित्वात् । तस्माक्लिष्टानाम क्लिष्टाभिर्निरो- धस्तासां च वैराग्येण परेणेति मनोरथमात्रमित्यत आह - क्लिष्टप्रवाहेति । आगमानुमानाचार्योपदेशपरिशीलनलब्धजन्मनी अभ्यास वैराग्ये क्लिटच्छिद्र- मन्तरा तत्र पतिताः स्वयमक्लिष्टा एव यद्यपि क्लिष्टप्रवाहपतिताः । न खलु शालग्रामे किरातशत संकीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति । अक्लिष्टच्छि द्वेष्विति निदर्शनम् । क्लिष्टान्तरवर्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः । संस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह-तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कार-