पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायु तव्यासभाष्यसमेतम् [पा. १सू. २ मोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्यो पगं भवति । ५ तदेव रजोलेशमलापेतं स्त्ररूपप्रतिष्ठं सत्त्वपुरुवान्यताख्यातिमात्रं धर्म- मेघध्यानोपगं भवति । तत्परं प्रसंख्यानमित्याचक्षते ध्यायिनः । चिति- शक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च, सत्त्व- । हि तमो रजो विजित्य प्रसृतं तदा चित्तसत्त्वावरकतमः समुत्सारणेऽशक्तत्वाद्र- जसस्तमःस्थगितं चित्तमधर्माद्युपगच्छति । अज्ञानं च विपर्ययज्ञानमभावप्रत्य- यालम्बनं च निद्राज्ञानमुक्तम् । ततश्च मूढावस्थापि सूचितेति । अनैश्वर्य सर्व- त्रेच्छाप्रतीघातः । अधर्मादिव्यातं चित्तं भवतीत्यर्थः । यदा तु तदेव चित्तस- त्त्वमाविर्भूतसत्त्वमपगततमः पटलं सरजस्कं भवति तदा धर्मज्ञानवैराग्यैश्वर्या- ण्युपगच्छतीत्याह- प्रक्षीणेत्यादि । मोहस्तमस्तदेव चावरणं प्रकर्षेण क्षीणं यस्य तत्तथोक्तम् । अत एव सर्वतो विशेषाविशेष लिङ्गमात्रालिङ्गपुरुषेषु प्रद्योत- मानम् । तथापि न धर्मायैश्वर्याय च कल्पते प्रवृत्त्यभावादित्यत आह–अनुविद्धं रजोमात्रया । रजसः प्रवर्तकत्वादस्ति धर्मादिप्रवृत्तिरित्यर्थः । तदनेन संप्रज्ञात- समाधिसंपन्नयोर्मधुभूमिकप्रज्ञाज्योतिषोर्मध्यमयोर्योगिनोश्चित्तसत्त्वं संगृहीतम् । संप्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थस्य चित्तावस्थामाह- तदेव । चित्तं रजोलेशान्मलादपेतमत एव स्वरूपप्रतिष्ठम् । अभ्यासवैराग्यपुटपाकप्रबन्धविधू- तरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूप प्रतिष्ठस्य विषयेन्द्रिय प्रत्याह- तस्थानवसिताधिकारतया च कार्यकारिणो विवेकख्यातिः परं कार्यमवशिष्यत इत्याह – सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघध्यानोपगं भवति । धर्ममेघश्च वक्ष्यते । अत्रैव योगिजनप्रसिद्धिमाह - तदिति । सत्त्वपुरुषान्यता- ख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसंख्यानमित्याचक्षते ध्यायिनः । चित्त- सामानाधिकरण्यं च धर्मधर्मिणोरभेदविवक्षया द्रष्टव्यम् । विवेकख्यातेर्हानहेतुं चितिशक्तेश्वोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च विवेकख्यातेदर्शयति - चितिशक्तिरित्यादि । सुखदुःखमोहात्मकत्वम- शुद्धिः । सुखमोहावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखवद्धेयौ । तथा- तिसुन्दरमप्यन्तवद्दुनोति । तेन तदपि हेयमेव विवेकिनः । सेवमशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तम् - शुद्धा चानन्ता चेति । ननु सुखदुःख- मोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना कथं विशुद्धा तदाकारसरिग्रह- परिवर्जने च कुर्वती कथमनन्तेत्यत उक्तम्-दर्शित विषयेति । दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवच्चितिशक्तिर्विषया