एतत् पृष्ठम् परिष्कृतम् अस्ति
२६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे-
अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं
विपाकः । तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः
पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यथा जयः
पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन
भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः ।
कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि
बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्संबन्धो न भूतो
न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्व.
रस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते
नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति ।
सांसारिकं विविधदुःखप्रहारेणेति । कुशलाकुशलानीति धर्माधर्मास्तेषां च कर्नजत्वादुपचा- सत्कर्मत्वम् । विपाको जात्यायुर्मोगाः । विपाकानुगुणा वासनास्ताश्चित्तभूमावाशेरत इत्याशयाः । नहि करमजातिनिर्वर्तकं कर्म प्राग्भवीयकरभभोगभावितां भावनां न यावद- भिव्यनक्ति तावत्करभोचिताय भोगाय कल्पते । तस्माद्भवति करभजात्यनुभवजन्मा भावना करभविधाकानुगुणेति । नन्वमी क्लेशादयो बुद्विधर्मा न कथंचिदपि पुरु परामृशन्ति, तस्मात्पुरुषग्रहणादेव तदपरामर्शसिद्धे: कृतं क्लेशकर्मेत्यादिनेत्यत आह -ते च मनसि वर्तमानाः सांसारिके पुरुषे व्यपदिश्यन्ते । कस्मात् , स हि तत्फलस्य भोक्ता चेतयितेति । तस्मात्पुरुषत्वादीश्वरस्यापि तसंबन्धः प्राप्त इति तत्प्रतिपेव उपपद्यत इत्याह- यो ह्यनेन बुद्धिस्थेनापि पुरुषमात्रसाधारणेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। विशिष्यत इति विशेषः पुरुपान्तराद्वयवच्छिद्यते । विशेषपदस्य व्याव| दर्शयिनुकामः परिचोदनापू| पारहरति-कैवल्यं प्राप्तास्तर्हीति । प्रकृतिलयानां प्राकृतो बन्धः । वैकारिको बन्धो विदेहानाम् । दक्षिणीदिबन्धो दिव्यादिव्यंविषयभोगभाजाम् । तान्यमूनि त्रीणि बन्धनानि । प्रकृतिभावनासंस्कृतमनसो हि देहपातानन्तरमेव प्रकृतिलयतामापन्ना ईतीतरेषां पूर्वा बन्धकोटि: प्रज्ञायते, तेनोत्तर- कोटिविधानमात्रमिह तु पूर्वापरकोटिनिषेध इति । संक्षिप्य विशेषं दर्शयति-स तु सदैव मुक्तः सदैवेश्वर इति । ज्ञानक्रियाशक्तिसंपदैश्वर्यम् ।
१ ख. 'णाच' । २ ज. इति तेषां ।