पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/393

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५१
कैवल्यपादः चतृथः

[ भाष्यम् ]

किं च स्वाभासं चित्तमित्यग्राह्यमेव 1चित्तं स्यादिति शब्दार्थः । तद्यथा स्वात्मप्रतिष्ठमाकाशम् 2अप्रतिष्ठम् इत्यर्थ: । स्वबुद्धिप्रचारप्रतिसेवेदनात् सत्वानां प्रवृत्तिर्दृश्यते--क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥

[ सूत्रम् ]

एकसमये चाभयानवधारणम् ॥ २० ॥

[ विवरणम् ]

सस्वात्मिकया वृत्या समालम्ब्येत, हस्तेनेव शरीरं कण्डूयमानम् । तत्राप्युपलब्धा वेिषयी भिन्न एव पुरुषः । एतेन जात्यन्तरग्राह्यग्राहकत्वेन निरवयवत्वेन पुरुषश्च स्वयमेव ग्राह्यः ग्राहकश्चेत्येतत् प्रत्यवोचाम ॥

  किम् च-स्वाभासं चित्तमिति उच्यमाने च अग्राह्यमेव चित्तं स्यादिति । एवं शब्दार्थः । स्वाभासमिति ह्युक्ते अन्येन नावभास्यते न गृह्यत इत्यर्थः । न तु स्वयमात्मानं गृह्वातीत्युच्यते । एवमादिशब्दप्रयोगेषु शब्दस्य विपरीतार्थत्वम् ॥

  तद्यथा--स्वात्मप्रतिष्ठमाकाशम्, अप्रतिष्ठमिति शब्दार्थः । तथा स्वस्थो देवदत्त इति, नीरोग इत्यर्थः, न तु स्वात्मनि स्थित इति । तत्र दृश्यत्वादिति हेतोरसिद्धिमाचक्षाणस्य प्रत्यक्षविरोधी लोकविरोधो व्यवहारविलोपश्चेत्याह-स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्राणिनां प्रवृत्तिर्द्दश्यते ॥

 क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति स्वां स्वां बुद्धिमेवं चरन्तीं प्रतिसंवेद्य दृष्ट्वा क्रोधलोभादिपरिहाराय विवेकवतां प्रवृतिरुपलभ्यते । तथा प्रसन्नं मे चित्तं कळुषितं मूढमिति च । तत् एतत् स्वबुद्धेरग्रहणे, न युक्तमिति । न हि निशाम्य परिस्पन्दिनीं बुद्धिरदृयेति युक्तं वक्तुम् ॥ १९ ॥

 अभ्युपगम्य वादोऽयम्-यद्यपि स्वाभासं विषयाभासं च मनो भवतु । तत्र दूषणम् एकसमये चोभयानवधारणम् । विषयपरिच्छेदकत्वे, नानाक्षणत्वादात्मपरिच्छेदो न युज्यते । अथ पुनरात्मानमवधारयति, न तदा विषयाभिमुखं, स्वात्मपरिच्छेदकत्वे नानाक्षणत्वात्॥


1.कस्यचिदि 2.न परप्रति