पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/369

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
पातञ्जलयोगसूत्रभाष्यविवरणे



[ सूत्रम् ]



जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥

[भाष्यम् ]

 वृषदंशविपा'१कादयः २‘स्वकर्मव्यञ्जकाञ्जनाः°३ । ४ ‘यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहिताः°५ पुनश्च स्वव्यञ्जकाञ्ज°६नोदयाः

[विवरणम् ]

 नारके कर्मणि विपच्यमाने तत्कर्मानुगुणा वासनाः प्रादुर्भवन्ति । तथा तैर्यग्योनकर्मणि विपच्यमाने तद्विपाकानुरूपा वासना व्यज्यन्ते। तथा मानुषेऽपि समानो न्यायः । न हि स्वविपाकसदृशीरनुपादाय वासनास्तस्य तस्य कर्मणो विपाकः संभवति । नापि वासनानामात्मनिष्पादकविपाकारम्भिकर्मतुल्यरूपाणि कर्मान्तराणि विपाकाभिमुखान्यन्तरेणाभिव्यक्तिः । एवं कर्मणां वासनानां च परस्परहेतुहेतुमद्भावोऽनादिभूतः ॥ ८ ॥

 तत्र वासनानामनेकजातिकालदेशव्यवधानेन दवीयसीनामानन्तर्यं विपच्यमानेन कर्मणा सह नास्ति । यथा दवीयसां मित्रस्वजनादीनाम् । यथैव · च नेदीयसी वासना पटीयसी, न तथा दवीयसी पटीयमानमासीदति । तस्मान्नास्ति दवीयसीनामानन्तर्यं वासनानाम् ।

 तदभावे चायं दोषः प्राप्नोति-यथा कल्पशतान्तारितः वृषदंशविपाकः भविष्यतः वृषदंशविपाकस्वानन्तरातीतो दैवविपाकः । तत्र नेदीयसी दैववासना विरुद्धत्वात् वृषदंशविपाकभिव्यक्तिहेतुतां न प्रतिपद्यते । कल्पशतव्यवहितानामपि वृषदंशवासनानां विप्रकर्षादनुपादाने वृषदंशविपाकहेतोः कर्मणो विपाको नावकल्पेत । ततश्च कर्मणां वासनानां चानर्थक्यं प्रसज्यतेति ॥

 अत्रोच्यते-जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । वृषदंशविपाकादयः स्वकर्मव्यञ्जकाञ्जनाः व्यञ्जकेन स्वेन कर्मणा व्यज्यमानाः यदि जातिशतेन वा दूरदेशतया वा कल्पसहस्रेण वा व्यवहिताः ॥


1. कोद- 4. --स यदि 2. स्वव्य- 5.हिता: . 3, -ञ्जनाभिव्यक्तः 6. --न एवोदियाद्