[भाष्यम् ]
चेतेि । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहिःसाधनसाध्या । तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तपःस्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहि:साधना'१न परान्पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति। तत्राशुक्लं योगेिन एव फलसंन्यासादकृष्णं चानुपादानात् । इतरेषां तु भूतानां पूर्वमिव त्रिविधमिति ॥ ७ ॥
[सूत्रम् ]
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥
[विवरणम् ]
अपि चाविदुष एव सर्वं कर्म । विदुषः कर्मानुत्पत्तेः । विद्वान् हि पुरुषः स्वरूपावस्थानव्यतिरेकेण फलं नाभिमन्यते । स्वरूपमात्रावस्थानं च समस्तव्यापारविरामेण प्रवर्तते । न चैवं विदुषः क्रियाऽनुष्ठानं घटते । न हि स्थलपथेनाभिप्रतिष्ठासमानो जलमार्गाभिप्रस्थानसाधनं नावादिकमनुतिष्ठति ।
ननु (न च)नित्यकाम्ययोरेवं सत्यविशेषः स्यात्। अत्रोच्यते-कामेितफल(तन्मात्रं नि)कर्ममात्रनिवृतिप्रयोजनत्वान्नित्यानामदोषः । यो हि काम्याद्विनिवृत्तस्तस्य बहुलं कर्मणां कामरहितेन शुद्धेन कर्त्रा कृतत्वादतिशुद्धफलत्वं शुक्लत्वबहुत्वाञ्च संस्कारार्थत्वम् । अपि च कामनिवृतिरेव महत् फलम् ।
किं च, नित्यं कुर्वतः किमर्थं करोमि, किं वाऽस्य फलं, के वास्यानुष्ठाने दोषाः, इति सम्यम्दर्शनरूपः परामर्शो जायत इति नित्यस्यास्ति विशेषः । शुक्लकृष्णात्मकत्वं त्वविशिष्टमुभयेषामपि कर्मणाम् । बाह्मसाधनसाधनीयत्वेन परपीडोपपतेः । [इति] तस्मादुच्यते ॥
शुक्ला कर्मजातिः तपस्स्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहिस्साधना बाह्यसाधानानपेक्षा न परान् पीडयित्वा भवति ॥
अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् । एषाम् आरब्धैकशरीराणाम् अशुक्ला संन्यासात् अकृष्णा च अनुपादानात् अकरणात्। नापि शुक्लकृष्णविमिश्रा, बाह्मसंन्यासानुपादानाभ्यां हेतुभ्याम् । तथा चोक्तम्-
1. नाधीना