पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/295

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यमू ]

 [१]संसर्गादस्य सौक्ष्म्यम् । [२]अतोऽनुपलब्धिः इति ।

 लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतः, अतीतलक्षणयुक्तः, अनागतवर्तमानाभ्यां लक्षणाभ्यां अवियुक्तः । तथा वर्तमानः, वर्तमानलक्षणयुक्तः, अतीतानागताभ्यां लक्षणाभ्यां अवियुक्तः । तथा अनागतः, अनागतलक्षणयुक्तः, वर्तमानातीताभ्यां लक्षणाभ्यां अवियुक्तः इति ॥  यथा पुरुषः एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवति इति ॥

[ विवरणम् ]

   [३]'नासतो विद्यते भावो नाभावो विद्यते सतः ।'

 इति आगमः । प्रत्यक्षानुपलब्धिश्च नासत्त्वस्य कारणम् । अथ व्यक्तेरेव विकारो विद्यमानश्चेत्, कुतो नोपलभ्यत इति ? आह-साक्षात् कारणे संसर्गादस्य सौक्ष्म्यम्, अतोऽनुपब्धिः । न असत्वात् ॥

 इदानीं भूतेन्द्रियाणां लक्षणपरिणाम इदमुच्यते-लक्षणपरिणामो धर्मो यथा मृदो घटादिः अध्वसु अतीतादिषु वर्तमानोऽतीतो धर्मः । किमुक्तं भवति ? अतीतलक्षणयुक्तः, न पुनरसत्वमापन्नः । इतराभ्यां च अनागतवर्तमानाभ्यामवियुक्तः । कारणस्य मृदो वर्तमानत्वात् तत्र संसृष्टस्य घटस्य [अ]विद्यमानत्वेऽपि(नस्यापि) युक्तो वर्तमानेन लक्षणेन घटः | तथा भविष्यन्नपि घटो मृद एवानागतः सन् भविष्यतीत्यनागतलक्षणेनाप्यवियुक्तः तथा वर्तमानः, वर्तमानलक्षणयुक्त:, अतीतानागताभ्यां लक्षणाभ्यामवियुक्तः ॥

{{gap}}तथा अनागतः अनागतलक्षणयुक्तः, वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः अतीतानागतलक्षणयोः मृदात्मकत्वात् घटस्य व्यवहितेनाप्यतीतलक्षणेनावियोगः ।

 कथमेकलक्षणयुक्तो धर्मो लक्षणाभ्यामपराभ्यामवियुक्त इत्यवियोगस्य दृष्टान्तमाह-यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवति । शेषासु तु भूतभविष्यलक्षणयुक्तो राग: । सतश्चाविनाशादसतश्चानुत्पत्तेरिति हि प्रतिपादितम् ॥


  1. संसर्गाच्चास्य
  2. सौक्ष्म्याच्चानुपलब्धि:
  3. भ- गी- 2. 16.