पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/149

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
समाधिपादः प्रथम:

[ भाष्यम् ]

 तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राहयेषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥ ४१ ॥

[ विवरणम् ]

 परिच्छिन्नं हि चित्तं विषयीकुर्वन्न पुरुषं विषयिणमनन्तं व्याप्तुमुत्सहते ! यदि पुरुर्ष व्याप्नोति प्रधानमपि व्याप्नुयात् ॥

 तस्माद्यथा दर्पणे मुखं छायारूपेण गृह्यते, तथा पुरुषच्छायाकारेण परिणतः प्रत्ययो गृह्यते पुरुषेण । तथा च व्यासः ‘यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनेि' । इति ।

 न तु मुक्तान्यपुरुषाकारेण परिणतौ द्वारमस्ति । यदि तदाकारेण परिणमेत, मुक्तस्यापि तत्स्वमेवेति दृश्यं स्यात् । न हि चित्तस्य परिणामादन्यत्वं नामस्ति ! स्वाकारेण हि परिणतं पुरूषो न तु चित्तं न पश्यति । स्वपुरुषे स्वत्वात्सति संबन्धे परिणतिद्वारमस्ति ।

कथं तर्हि स्वपुरुषादन्यस्य स्वत्वासंबन्धिनो ग्रहणम्-उच्यते-यथा परदर्पणद्वारेण परमुखदर्शनं, तथा दर्पणस्थानीयपरसत्त्वाकारपरिणतं स्वसत्वं पुरुषः पश्यन् परमपि पुरुषं जानाति ॥

 तस्यायमात्मा ममायमित्यन्यत्वन्त्वनुमानादेव प्रतिपद्यते स्वकीयादन्यदीयसत्वगत्तविशेषलिङ्गेन । सत्वानां च त्रिगुणत्वादवश्यं विशेषाः सन्ति । पुरुषाणां तु निर्विशेषत्वात्स्वरूपेण भेदो दुरवबोध एव ॥

 तस्मादेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु तत्स्थतदञ्जनता । तेषु ग्रहीत्रादिषु तिष्ठतीति तत्स्थं तत्स्थताविशिष्टा या ग्रहीत्राद्यञ्जनता, तदेवाह-तेषु स्थितस्य तदाकारापत्तिः समापत्तिरित्युच्यते ॥

 सम्यगापत्तिः समापत्तिः सा च तादृशी प्रत्यस्तमितबहिर्वृत्तेरेव भवति । यद्यपि व्युत्थितचित्तस्यापि समापत्तिरस्ति ! तथाऽपि सा न समीचीनतरा, रजस्तमोभ्यां चित्तसत्वस्यात्यन्ताभिभूतत्वादिति ॥ ४१ ॥