पृष्ठम्:न्यायलीलावती.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०५
न्यायलीलावतीकण्ठाभरण सविवृतिप्रकाशोद्भासिता


श्चित्तदसत्वात् । न च संयुक्त संयोगस्वरूपं कश्चिद्रणयति । प्रत्येकं सामान्यतस्तदनुमानमिति चेत्, न, न ह्यविद्यमानमनुमातुं शक्यम् । न च लिङ्गमस्ति । दूरत्वादूरत्वे लिङ्गमिति चेत्, न, दूरत्वादुरत्वयोः परत्वापरत्वातिरिक्तयोरभावात् । ततः परत्वापरत्वसामानाधिकरण्यमेव संयुक्त संयोगस्य भूयस्त्वमल्पत्वं चोत्पन्ने परत्वापरत्वेऽवभासते । यत्तु भासर्वज्ञीयं मतं पूर्व्वोत्पन्नत्वं


न्यायलीलावतीकण्ठाभरणम्

    • स्यान्न त्वेवमित्याह - न चेति । ननु गणनामन्तरेणैव सामान्यत एव

संयुक्त संयोगबहुत्व मल्पत्वं वा उन्नीय परापरव्यवहारः स्यादित्याह--- सामान्यत इति । बहुत्वं सङ्खयाविशेषः स यद्युत्पद्येत तदाऽनुमीयेतापि गणनामन्तरेण तदुत्पत्तिरेव नास्तीत्याह - न हीति । न च संयुक्त संयोगभूयस्त्वादिकं प्रतिलिङ्गमस्ति येन तदनुमीयेते त्याह --- न चेति ननु दूरत्वेन भूयस्त्वं अदूरत्वेन चाल्पत्वं संयुक्त संयोगानामनुमयितेत्याह- दूरत्वेति । उपसंहरति- - तत इति ।

 उत्पन्न इति । आरोपित इत्यर्थः तथा च परत्वारोपात संयुक्त. संयोगभूयस्त्वधी रपरत्वारोपात् तदल्पत्वधीस्तयोरुत्पत्तिरिति भा. वः । अन्यथा अन्योन्याश्रयः स्यात् । भाष्यं चैवमुपपादितं भवति ।

न्यायलीलावतीप्रकाशः

रिति । कुतस्तर्हीति । उक्तरीत्या संयोगे तदभावादित्यर्थः । न चेति । व्यापकं विना व्याप्याभावादित्यर्थः । अनुभवसिद्धां संयोगभूयस्त्वादिधियमुप पादयति — तत इति । कालकृतपरत्वापरत्वे अधिकृत्याह - यत्त्विति । ननु परत्वधीरपरत्वाश्रयाभिमतावच्छेदकाद्य सूर्याक्रियामागमावसमानकाल त्वालम्बना तत्पिण्डप्रागभाव समानकालीनत्वालम्बना वा। अपरत्वधीस्तु परत्वाधारताभिमतपिण्डसमानकालपदार्थध्वंसकालोत्पत्तिमत्त्वविषया तदुत्पत्तिकालानाश्रयत्वे सति तदुत्तरकात्वविषया वा अस्तु,

न्यायलीलावतीप्रकाशविवृतिः

त्वात् । तत्पिण्डेति । परत्वाश्रयाभिमत पिण्डेत्यर्थः । तदुत्पत्तिकालेति । अन्नोभयदलेऽपि परत्वाधाराभिमतः पिण्डस्तत्पदार्थः । सत्यन्तं चो.