पृष्ठम्:न्यायलीलावती.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


 कथं पुनः परत्वापरत्वे । [संयुक्त] संयोगाल्पीयस्त्वभूयस्त्वयोरेव तद्व्यवहारहेतुत्वात् । अनुमेयात्प्रचुरतरातीततपनपरिस्पन्दावच्छेदादेर्विलक्षणे एव प्रत्यक्ष [१] प्रतिभासिनी परत्वापरत्वे। तथाऽन्यत्रानुमान [२] मिति चेन्न, चिरक्षिप्रादेरपि बहिर्भावा-


न्यायलीलावतीकण्ठाभरणम्

 कथमिति । दिक्कृतपरत्वापरत्वयोरुत्पादार्थं संयुक्तसंयोगभूयस्त्वधीस्त दल्पीयस्त्वधीश्च त्वया निमित्तकारणत्वेनाभ्युपेया। तथा च तत एव तद्वारद्वारा ( तद्व्यवहारोप ? ) पत्तौ किं ताभ्यामित्यर्थः । ननु कालिकपरत्वापरत्ववद् दैशिके अपि स्यातां न हि तत्र * * पिण्डयो: प्रत्यक्ष एवानुभूयमाने परत्वापरत्वे अतीन्द्रियप्रचुरतरातीततपन परिस्पन्दावच्छेदेनान्यथा साधयितुं शक्यते इति शङ्कते -- अनुमेयेति । तथान्यन्त्रेति । तद्द्द्द्ष्टान्तेन दिक्कते अपि परत्वापरत्वे अनुमेये इत्यर्थः । दृष्टान्तीभूते परत्वापरत्वे चेदङ्गीकर्त्तव्ये तदा चिरक्षिप्रादिकमपि गुणान्तरमङ्गीक्रियतामित्याह - चिरक्षिप्रादेरिति । तर्हि

न्यायलीलावतीप्रकाशः

 दिक्कृते परत्वापरत्वे आक्षिपति - कथमिति । संयुक्तेति | परत्वापरत्वोत्पत्तावपि तद्गोचरापेक्षाबुद्धेर्हेतुत्वेन तस्यावक्ष्यापेक्षणीयत्वादिति भावः । कालकृतपरापरव्यवहारस्य परत्वापरत्वव्यवहारहेतुत्वात्तद्द्दष्टान्तेन दिक्कृतस्यापि तस्य तद्धेतुकत्वं साध्यमिति अभिप्रे- त्य परत्वापरत्वे साधयति — अनुमेयादिति । परापरबुद्धेरध्यक्षायाः सूर्यक्रियाभूयस्त्वादिनाऽतीन्द्रियेणानि वहात्तदर्थमध्यक्षे परत्वापरत्वे स्वीकार्ये इत्यर्थः । परिस्पन्दावच्छेदादेरिति । आदिपदेनाल्परत सूर्यपरिस्पन्दस्यापरहेतो: संग्रहः । अन्यत्रापीति । दिक्कृतपरापरव्यवहारेऽपत्यिर्थः । विप्रतिपन्न प्रति संयुक्त संयोगाल्पीयस्त्वभूयस्त्वातिरिक्तयोः परत्वा-

न्यायलीलावतीप्रकाश विवृतिः

संयुक्तेत्यप्रिमग्रन्थानुरोधादाह - दिक्कृत इति । एवं सति कालिकपरत्वादिसाधनमर्थान्तरमत आह - कालकृतेति । ननु प्रत्यक्षसिद्धे दौशिकपरत्वादौ किमित्यनुमानव्यवस्थाप्यत्वमुच्यत इत्यत आह — विप्रतिप-


  1. प्रत्ययप्र० ।
  2. तथाऽन्यत्राप्यनु० ।