पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२३
एकविंशः सर्गः।


मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम् ।
अम्बरं परिदधे विधुमौले: स्पर्धयेव दशदिग्वसनस्य ॥१४॥

 मर्त्येति ॥ मर्त्यलोके मदनो नलः दश दिश एव वसनं यस्य दिगम्बरस्य विधुमौलेश्च न्द्रशेखरस्य स्पर्धयेवाम्बरं वस्त्रम् , अथ च-गगनं परिदधे । अत्र कृतदशदिग्रूपविभागं गगनमुच्यते, तेन गगनवसनस्येत्यर्थः। किंभूतम्-सदशत्वं दशाभिर्दीर्घप्रान्ततन्तुभिः सह वर्तते तद्भावम्, अथ च-दशभिः सह वर्तमानं तद्भावं दशत्वसंख्यायोगिदिग्विभागोपाधिभिरेव दशत्वसंख्यायोगित्वं बिभ्रत् । सदशत्वमुदितभाग्यत्वं बिभ्रदिति नलविशेषणं वा । तथा-अभ्रवदौचित्याच्छरन्मेघस्येव, अभ्रकापरपर्यायस्य शुभ्रतरद्रव्य- विशेषस्येव वा, विशदा शुभ्रतरा द्युतिर्यस्य, । अत एव-तारं सूक्ष्मतरम् । धवलद्युति च तत्तारं चेत्यैकपद्यं वा । अभ्रवद्विशदा द्युतिर्यस्य तद्भावस्तत्ता तामारात्यादत्ते तद्धवलतरं वा । शरन्मेघवद्भकद्रव्यवद्वा निर्मला द्युतिर्यासां तादृश्यस्तारका यत्र तद्वा । अभ्राणि मेघान्विशन्ति, अत एव मेघाच्छादितत्वाद् अद्युतयः कान्तिरहितास्तारका यत्रेति वा । अच्छिन्नं धौतं वस्त्रं परिदधे इत्यर्थः । ईश्वरोऽपि विशिष्टमाकाशमेव वस्ते । शिवकामयोविरोधात्स्पर्धा युक्ता । अभ्राणि विशन्तीति पक्षे 'द्वितीया' इति योगविभगात्समासः। आरातीत्यादन्तत्वात्कः ॥

भीमजामनु चलत्प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः ।
आववार हृदयं न समन्तादुत्तरीयपरिवेषमिषेण ॥१५॥

 भीमजामिति ॥ राजर्षीणां सदाचारनृपाणां मध्ये इन्द्रो नल उत्तरीयोपरितनवस्त्रस्य परिवेषमिषेण वेष्टनव्याजेन हृदयं मनः, अथ च-वक्षःस्थलं, समन्तात् नाववार न बबन्ध पिदधे वा,अपितु बबन्ध पिदधे वा । किंभूतम्-यतः प्रतिवेलं वारंवारं भीमजामनु लक्षीकृत्यानुरागातिशयाच्चलदभिमुखं धावत्, अत एव-किंभूत इव-तद्धृदयं संयियंसुरिव सम्यक् नितरां नियन्तुमिच्छुरिव । क्षणमात्रं त्वया न गन्तव्यमिति गाढं संयतं कर्तुमिच्छन्निव । स्मृत्यादावेकवाससः कर्मानधिकारोक्तेरुत्तरीयवस्त्रधारणमुक्तम् । अन्योऽप्यन्यत्र गमनोत्सुको बलाद्रज्वादिना बद्ध्वा स्थाप्यते । स समन्तादिति च पाठः। राजऋषिः, 'ऋत्यकः' इति प्रकृतिभावः॥

स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः ।
केशशेषजलमौक्तिकदन्ता तं बभाज सुभगाप्लवनश्रीः ॥ १६ ॥

 स्नानेति ॥ सुभगा मनोहरा, अथ च -सौभाग्यवती, आप्लवनश्रीः स्नानलक्ष्मीस्तं बभाज सिषेवे । मानेन नितरां शुशुभे इत्यर्थः । किंभूता-स्नानार्थं वारि तद्युक्ताः सुवर्घटास्त एव राजन्तावुरोजौ कुचौ यस्याः सा । तथा-'ऊर्ध्ववृत्ततिर्यगर्धचन्द्राकारा वर्णानां क्रमात्तिलकाः' इति दक्षवचनाल्ललाटे धृतो गौरमृत्तिलकबिन्दुर्गङ्गातीरगोपी-