पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४६
नैषधीयचरिते

स्माद्वदामतमामतितमां ब्रुवाम । सूर्योदयो जातः, तस्मात्क्रीडां त्यक्त्वा शीघ्रं शय्याया उत्तिष्ठतमिति वचनेऽस्माकं प्राप्तःकाल इति धार्ष्ट्येन ब्रूम इत्यर्थः । यद्यूयं प्रियवचनचतुरास्तर्ह्योवं परुषं किमिति वदथेत्याशङ्क्याह-तदस्मदुक्तं परुषं वच एव पुण्यद्रुहः प्रातःकालीनस्नानसंध्यादिधर्मविरोधिनः नर्मणः प्रातःकालीनालिङ्गनचुम्बनादिविलासस्य पुनः प्रबोधपूर्वमुत्थापनाद्विरचितः परुषरूपो विघ्नोपि वां युवयोरेकस्यै अरुषे केवलाय क्रोधाभावाय उदेत्विति न, किंतु खलु निश्चितं मुदेपि हर्षायाप्युदेतु । यद्यप्येतत्परुषमुक्तम्, तथापि रोषो न कार्यः परुषस्यापि पुण्यहेतुत्वाद्धर्षोपि यस्माद्भविष्यति । तथा च हितवादित्व एव तात्पर्यात्प्रियवचनचातुर्यमव्याहतमेवेत्यर्थः। क्रीडां विहाय शीघ्रमुत्तिष्ठतमिति भावः । रतीत्यादिविशेषणेन द्वयोरौचिती सूचिता । वां युवयोर्मध्येऽरुषे रोषहीनायै एकस्यै भैम्यै मुदे नोदेतु भैम्याः संभोगप्रियत्वान्नर्मविघ्ने यद्यपि संतोषो न भवेत् , तथापि तव प्रियपुण्यत्वादेवास्माभिरुच्यत इत्यर्थ इति वा । भैम्यै कोपाभावायापि नोदेतु मुदेपि नोदेतु । भैम्या रोषो वास्तु हर्षोपि वा माभूत्, तथापि समयोचितमुच्यत एवेति वा । तत्तस्मादवसरोचितभाषित्वात्पुण्यद्रुहो नर्मणः परुषं यथा तथा विरचितो विघ्नोपि निश्चितमकोपाय केवलमुदेत्विति न, किंतु मुदेऽप्युदेतु । सदा स्वोपजीविनाभिहितेपि परुषे रोषो न भवति, किंतु हर्ष एव भवतीत्यर्थ इति वा । किंच प्रियवचःप्रवीणा अपि वयं यतो नग्नाचार्या जितलज्जाः, अतः स्वच्छन्दं वदाम इति भावः। 'नग्नो बन्दिक्षपणयोर्विवस्त्रे तु' इति विश्वः । द्वैतं पूर्ववत् । 'शेषाद्विभाषा' इति कप् । वदामतमां, 'प्रैषातिसर्ग-' इति प्राप्तकाले लोट् । 'तिङश्च' इत्यतिशये तमप् । पुण्यद्रुहः ‘सत्सूद्विष-' इति क्विप् । उदेतीति पाठे-'वर्तमानसामीप्ये-' इति लट् । एकस्यै, तादर्थ्यमात्रविवक्षया चतुर्थी ॥

भव लघुयुताकान्तः संध्यामुपास्स्व तपोमल
 त्वरयति कथं संध्येयं त्वां न नाम निशानुजा।
द्युतिपतिरथावश्यं कारी दिनोदयमासिता
 हरिपतिहरित्पूर्णभ्रूणायिता कियतः क्षणान् ॥ २२ ॥

 भवेति ॥ हे राजन्, त्वं तस्माल्लघु शीघ्रं युता पृथग्भूता कान्तायस्मादेवंभूतो भव । इदानीं भैम्या सह क्रीडां त्यज, ततः संध्यां नित्यकृत्योपासनामुपास्स्व कुरु । हे तपसा नित्यकर्माद्यनुष्ठानरूपेणामलोज्ज्वल निर्दोष, निशानुजा रात्र्यनन्तरजाता प्राभातिकीयं संध्या त्वां कथं नाम न त्वरयति, अपि तु त्वरयत्येव । अथ मुहूर्तानन्तरक्षणे द्युतिपतिः सूर्यो दिनोदयं दिवसप्रारम्भमवश्यंकारी अवश्यं करिष्यति । उदेष्यतीत्यर्थः । यतः- हरिरिन्द्रः पतिर्यस्यास्तस्या हरितो दिशः प्राच्याः पूर्णभ्रूणो दशमासगर्भ इवाचरितो रक्ततरः कियतस्त्रिचतुरानेव क्षणान्नासिता स्थाता। प्रातःसंध्यायाः सूर्योदयात्प्रागेव विधानाच्छीघ्रमुत्थाय प्रातःसंध्यामुपास्स्वेत्यर्थः।युतेति,'यु मिश्रणामिश्रणे' क्तः । त्यक्तादिपदत्यागेनामङ्गलप्रतीतिपरिहारार्थं युतेतिश्लिष्टपदं प्रायोजि । संध्यापदेन कर्मानुष्ठानपर्यन्तमेव कान्तारहितो भव, तदनन्तरं पुनरपि युता संयुक्ता कान्ता येनेति मिश्रण