पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
नैषधीयचरिते

तुकेनाक्रान्तं मनोऽन्तःकरणं यस्यैवंभूतोऽभूत् । किंभूतम्-एकान्तेन नियमेन सर्वदाभीक्ष्णं वा मनो विनोदयति रञ्जयत्येवंशीलम् ॥

 विरहित्वेऽपि तस्य कुतूहलाक्रान्तत्वं कुत इत्यपेक्षायां कविरर्थान्तरन्यासेनोत्तरमाह-ससैन्यनलदर्शनेनातिभीतः कथं तत्र निदद्रावित्युत्तरश्लोकाकाङ्क्षायामुत्तरश्लोकसमर्थनार्थं वार्थान्तरन्यासमाह-

अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ।
तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥१२०॥

 अवश्येति ॥ अवश्यं नियमेन भव्येषु भवितव्येषु शुभादिषु विषयेऽनवग्रहोऽबाध्यमानो निरर्गलो ग्रहोऽभिनिवेशः प्रसरो यस्याः सा वेधसो ब्रह्मणः स्पृहा वाञ्छा यया दिशा येन मार्गेण धावति गच्छति तया दिशा तेनैव मार्गेण जनस्य लोकस्य चित्तेन सा वेधसः स्पृहानुगम्यते । यथा विधिः प्रेरयति तथा लोकः करोतीत्यर्थः । किंभूतेन चित्तेन-भृशमत्यर्थमवशोऽनधीन आत्मा स्वरूपं यस्य तेन । विधिस्पृहाधीनेनेत्यर्थः । यथा-अप्रतिबन्धा वात्या यया दिशा धावति तया दिशा निःसारत्वाद्वातपरतन्त्रेण तृणेन सा वात्यानुगम्यते तथेत्यर्थः । अवश्यंभाविभैमीपरिणयनानुकूले विधिप्रेरिते हंसे कौतुकं युक्तमिति भावः । विधिप्रेरितत्वादेव नलस्वीकृतस्वीयग्रहणपूर्वमोचनद्वारा नलस्योपकारार्थं सैन्यसंनिधावपि बुद्धिपूर्वं निदद्राविति भावः । यद्वा- अनेनाकारेण तेन न ज्ञातस्तथापि विधिवशादेव भाविन्यपि सुखेऽन्तःकरणं सोत्साहं जातमिति भावः । अवश्यभव्येष्विति मयूरव्यंसकादित्वात्समासः । 'लुम्पेदवश्यमः- इति मलोपः॥

अथावलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वलं खगः।
स तिर्यगावर्जितकंधरः शिरः पिधाय पक्षेण रतिक्लमालसः ॥१२१॥

 अथेति ॥ अथानन्तरं स खगो हंसस्तदा तस्मिन्समये रतिक्लमेन सुरतखेदेनालसः सन् उपपल्वलं सरःसमीपे क्षणं निदद्रौ निद्रां चके । किं कृत्वा-पक्षेण शिरः पिधायाच्छाद्य । किंभूतः--तिर्यगावर्जिता नम्रीकृता कंधरा ग्रीवा येन सः । पुनः किं कृत्वा-एकश्चासौ पादश्च एकपादः सोऽस्यां स्थितावस्तीति तां स्थितिमवलम्ब्याङ्गीकृत्य। पक्षिजातिरियम् । एकपादिकामिति बहुव्रीहौ कुम्भपद्यादिष्वेकपदीशब्दस्य पाठात्पादशब्दान्त्यलोपे 'पादोऽन्यतरस्याम्' इति ङीपि भत्वात्पदादेशे एकपदीमिति प्राप्ते 'न कर्मधारयान्मत्वर्थीयः' इति 'एकाक्षरात्कृतो जातेः सप्तम्यां च न तो स्मृतौ' इति चानित्यत्वादनाश्रित्योक्तकर्मधारयादस्त्यर्थे ठनि इकादेशे समर्थनीयम् । उपपल्वलमिति सामीप्येऽव्ययीभावः॥


१ 'अत्रानुप्रासो, विशेषश्चालंकारौ' इति साहित्यविद्याधरी २ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी । ३ 'अत्र जात्यलंकारः' इति साहित्यविद्याधरी । 'स्वभावोक्तिरलंकारः 'स्वभावोक्तिरलंकारो यथावद्वस्तुवर्णनम्' इति लक्षणात्' इति जीवातुः।