पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०९
सप्तदशः सर्गः।


स्तेषां देवानां रथे विद्युता कृत्वा पीता पताका यस्य तद्भावं ततान ध्वजाप्रसंबन्धात्प्रकटिता विद्युद्ध्वजाग्रे पीता पताकेवाभूदित्यर्थः ॥

पुनःपुनर्मिलन्तीषु पथि पाथोदपङ्क्तिषु ।
नाकनाथरथालम्बि बभूवाभरणं धनुः ॥ ७॥

 पुनरिति ॥ इतस्ततोगमनवशात्पथि पुनः पुनः मिलन्तीषु संबध्यमानासु पाथोदा मेघास्तेषां पतिषु वर्तमानं धनुरिन्द्रधनुर्मार्गसंबन्धवशान्नाकनाथरथमालम्बते एवंशीलं संबद्धं सदिन्द्ररथस्येवाभरणं भूषणं बभूव । इन्द्ररथे वर्तमान धनुरागच्छन्तीषु मेघपङ्क्तिषु क्षणं भूषणमभूदिति वा । मेघा हि सेन्द्रचापाः शो[१]भन्ते ॥

जले जलदजालानां वज्रिवज्रानुबिम्बनैः।
जाने ताकालजैस्तेषां जाताशनिसनाथता ॥८॥

 जल इति ॥ जलदजालानां जले तस्मिन्काले इन्द्रादिगमनसमये जातैव्रज्रिणो वज्रस्तस्यानुबिम्बनैः प्रतिबिम्बैः कृत्वा तेषां मेघजालानामशनिना वज्रेण सनाथता सस्वामिकता जातेति जाने । तदाप्रभृतिःप्रायेण मेघानां सवज्रत्वमित्युत्प्रेक्षा ॥

स्फुटं सावर्णिवंश्यानां कुलच्छत्रं महीभुजाम् ।
चक्रे दण्डभृतश्चुम्बन्दण्डश्चण्डरु[२]चिं क्वचित् ॥९॥

 स्फुटमिति ॥ दण्डभृतो यमस्य दण्डः क्वचिदाकाशदेशे चण्डरुचिं सूर्य चुम्बन्स्पृशन्सन् तं सूर्यमेव सावर्णेमनोर्वंशे जातानां महीभुजां कुलच्छत्रं कुलश्रेष्ठम् । अथ चकुलक्रमायातं राजचिह्न स्फुटमिव चक्रे । स्वयं वृत्तत्वात् , अधो दण्डसंबन्धात् , छत्रमिवेत्युत्प्रेक्षा । ते सूर्यमण्डलं प्राप्ता इति भावः। उद्ये अस्तमये च समानो वर्णोऽस्य स सवर्णः सूर्यस्तस्यापत्यं सावणिः, 'अत इञ्' । वंश्यः, दिगादिः॥

नलभीमभुवोः प्रेम्णि विस्मिताया दधौ दिवः ।
पाशिपाशः शिरःकम्पलस्तभूषश्रवःश्रियम् ॥ १०॥

 नलेति ॥ पाशिपाशो वरुणपाशो नलभीमभुवोरनन्यतुल्ये प्रेम्णि विषये विस्मिताया दिवो विस्मयवशादेव शिरःकम्पेन सस्ता भूषा भूषणं यस्मादेवंविधस्य श्रवसः कर्णस्य श्रियं लक्ष्मी दधौ । तस्यास्ताटङ्करहितः कर्ण इव शुशुभ इत्यर्थः । अनेन दिवो नायिकात्वं [३] व्यज्यते ॥

पवनस्कन्धमारुह्य नृत्यतरकरः शिखी।
अनेन प्रापि भैमीति भ्रमं चक्रे नभःसदाम् ॥ ११ ॥


  1. तादृशासंबन्धे संबन्धोक्तरतिशयोक्तिरलंकार:-इति जीवातुः
  2. 'चण्डरुचम्' इति सुखावबोधासंमतः पाठः
  3. 'अत्र श्रियमिव श्रियमिति सादृश्याक्षेपानिदर्शनाभेदः' इति जीवातुः।