पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८७
षोडशः सर्गः।

रसं नाभविष्यत्, तर्ह्यमृतादा अपि देवा यागानलविकृतगन्धमप्येतत्सानुरागं कथमभ्यवाहरिष्यन् । अभ्यवहरन्ति तावत् । तस्मादमृतादपि विकृतगन्धमपि घृतमधिकरसम् , किमुत स्पष्टसौरभमिति भावः । मनुष्यैरपि सुधा यस्मान्न पीता, अमृतान्धसोऽपि विशिष्टा(ष्य) अस्मै यस्मात्स्पृहयन्ति, तस्मादपि हेतोरदो घृतं सुधायाः स्वादुतरमनुमीयते । एकेऽल्परसत्वाद्बुद्धिपूर्वममृतं नास्वादयन्त्येव, अन्ये च नित्यप्राप्तामृता अपि यस्माध्दृताय स्पृहयन्ति, तस्माद्धेतुद्वयादमृतादप्यधिकमेतदप्यनुमीयत इति वा । क्रतूषर्बुधेन दग्धश्चासौ गन्धश्च सोस्त्यस्येति कर्मधारयादिनिः । 'स्पृहेरीप्सितः' इति संप्रदानत्वम् ॥

अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।
लुनाति यूनः स्म धियं कियद्गता निवृत्त्य बालादरदर्शनेषुणा ॥७२॥

 अबोधीति ॥ असौ बाला ह्रीनिभृतं बालत्वाल्लज्जावशादविस्पृष्टमितीव हेतोर्भावबोधकं भ्रूविक्षेपादि मम चेष्टितं नो अबोध्यज्ञासीत्किम् । वाथवा प्रतीत्य ज्ञात्वाप्यननुरागान्नादृतवतीत्येवंरूपां पुनःपुनर्जायमानां यूनो धियं संशयबुद्धिं कियन्तं मार्गं गता अपि बाला निवृत्त्य परावृत्त्यादरदर्शनं सादरकटाक्षविलोकनं तद्रूपेणेषुणा लुनाति स्म चिच्छेद । तदिङ्गितज्ञानपुरःसरं स्वानुरागं प्रकटीचकारेत्यर्थः । तादृग्विलोकनान्मदिङ्गितं ज्ञात्वा इयं मय्यनुरक्तेति युवा निश्चिकायेति भावः। कियद्गतेति 'द्वितीयाश्रिता-' इति समासः । कियद्यथा तथा गतेति क्रियाविशेषणं वा॥

न राजिकाराद्धमभोजि तत्र कैर्मुखेन सीत्कारकृता दधद्दधि ।
धुतोत्तमाङ्गैः कटुभावपाटवादकाण्डकण्डूयितमूर्धतालुभिः ॥७३॥

 नेति ॥ युग्मम् । तत्र भीमगृहे भोजनावसरे वा राजिकाभी राद्धं साधितं दधि दधद्धधिमिश्रितं व्यञ्जनं तैक्ष्ण्यातिशयात्सीत्कारकृता मुखेन कैर्जन्यजनैर्नाभोजि अपितु सर्वैरापि भुक्तम् । किंभूतैः कैः-कटुभावपाटवात्कटुत्वातिशयाद्धुतोत्तमाङ्गैः कम्पितशिरोभिः । तथा- भोजनकाले शिरःकण्डूयनस्य स्मार्तवचनैर्निषिद्धत्वादकाण्डेऽकाले कण्डूयिते मूर्धतालुनी यैस्तैः । मुखस्यैव भोजनसाधनत्वे सिद्धेऽपि सीत्कारादिविशिष्टत्वद्योतनार्थं मुखेनेत्युक्तम् । राजिकाराद्धभोजिनामियं जातिः ॥

वियोगिदाहाय कटूभवत्त्विषस्तुषारभानोरिव खण्डमाहृतम् ।
सितं मृदु प्रागथ दाहदायि तत्खलः सुहृत्पूर्वमिवाहितस्ततः॥७४॥

 वियोगीति ॥ वियोगिनां स्त्रीपुंसानां पीडार्थं कटूभवन्त्यस्त्विषो दीप्तयो यस्यासह्यदीप्तेस्तुषारभानोश्चन्द्रस्याहृतं खण्डमिव सितं श्वेतम् । तथा प्राक्प्रथमं मृदु प्रथमस्पर्शसमये कोमलमथ पश्चान्मुखप्रक्षेपानन्तरं तालुजिह्वादेस्तैक्ष्ण्यातिशयाद्दाहदायि दाहकारि आनीतम् । तद्राजिकाराद्धमभोजीति पूर्वेणान्वयः। तुषारभानोः सकाशादाहृत-