पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दाधीयचरिते

लुङिभक्तेः कौमाराणां संज्ञा । देहान्ते देवः परं तारकं ब्रह्म व्यपदिशतीति । भवाब्धियादसश्च भवसायुज्यं युक्तम् ॥

निर्विश्य निर्विरति काशिनिवासि भोगा-
न्निर्माय नर्म च मिथो मिथुनं यथेच्छम् ।
गौरीगिरीशघटनाधिकमेकभावं
शर्मोर्मिकञ्चुकितमञ्चति पञ्चतायाम् ॥ ११८ ॥

निर्विश्येति ॥ काश्यां निश्चयेन वसतीत्येवंशीलं काशीनिवासि मिथुनं स्त्रीपुंसयुग्मं कर्तृ मिथो रहसि परस्परं निविरति वैराग्यरहितं सानुरागं यथा तथा यथेच्छं यावदभिलापं भोगान्त्रक्चन्दनादीन्निर्विश्यानुभूय । तथा-मिथः यथेच्छं नर्म वचनविहारादिक्रीडां च यावज्जिवं निर्माय विधाय पञ्चतायां देहान्तसमये अर्धकायसंयोजनरूपाद्गौरीगिरीशयोर्घटनादप्यधिकं शार्मोर्मिकञ्चुकितं सुखपरम्परासंवलितमेकभावं तादात्म्यमञ्चति प्राप्नोति । शिवयोर्हि संयोगे शरीरद्वैतं स्फुरति, काशिवासिमिथुनस्य शिवतादात्म्यत्तदपि नास्तीत्याधिक्यम् । स्वर्गादिसुखपरित्यागं ध्यानादियोगं च विना काशीनिवासमात्रेण परमानन्दरूपब्रह्मसायुज्यं भवति । तस्मात् सर्वाभिलाषसिद्ध्यर्थमेनं वृणीष्वेति भावः॥

न श्रद्दधासि यदि तन्मम मौनमस्तु
कथ्या निजाप्ततमयैव तवानुभूत्या ।
न स्यात्कनीयसितरा यदि नाम काश्या
राजन्वती मुदिरमण्डनधन्वना भूः ॥ ११९ ॥

नेति ॥ हे भैमि, यदि काश्याः स्वर्गापेक्षयाधिकवर्णनेन मद्वचने न श्रद्दधासि न विश्वसिषि तर्हि मम मौनमस्तु । तर्हि तव मौनित्वे काशीमहिमानं का कथयिष्यतीत्यत आह-मुदिराणां मेघानां मण्डनं धन्व यस्य तेनेन्द्रेण राजन्वती सौराज्यवती भूः अमरावती काश्याः सकाशाद्यदि नाम चेत्कनीयसितरा अल्पीयसितरा हीनतरा न स्यान्न भवेत्तर्हि तव निजया आत्मीयया आप्ततमयातितरां हितया अनुभूत्यानुभवेनैव कथ्या कथनीया । काशीतः स्वर्गभूमिरतिहीनेत्यस्मिन्नर्थे तवानुभव एव प्रमाणमित्यर्थः । एतद्धरणेन काशीमनुभूय काश्यमरावत्योर्विशेषं ज्ञास्यसि । तस्मादेनं वृणीष्वेति भावः ! अतिशयेन अल्पा कनीयसी इति ईयसुनि'युवाल्पयोः कन्' इति कन्नादेशेऽतितरां कनीयसी कनीयसितरा इति 'घरूप-' इत्यादिना ह्रस्वः । काश्याः, 'पञ्चमी विभक्ते' इति पञ्चमी ॥

ज्ञानाधिकासि सुकृतान्यधिकाशि कुर्याः
कार्य किमन्यकथनैरपि यत्र मृत्योः।