पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२९
दशमः सर्गः

 देववाक्याविज्ञाया हत्वन्तरमहि-

 यः स्पर्धया येन निजप्रतिष्ठां लिप्सुः स एवाह तदुन्नतत्वम् ।
 कः स्पर्धितः स्वाभिहितस्वहानेः स्थानेऽवहेलां बहुलां न कुर्यात्।।

 य इति ॥ यः पुरुषो येन पुरुषेण सह स्पर्धया निजप्रतिष्ठां स्वस्य गौरवं लिप्सुः प्रा प्तुमिच्छुः, स एव पुरुषः तस्योन्नतत्वं स्वस्मादाधिक्यं यस्मादाह ब्रूते तस्मात्स्वेनात्मनाभिहिता उक्ता स्वस्य हानिर्न्यूनता येनैवंविधस्य स्पर्धितुः स्थाने विषये बहुलामवहे-मवज्ञां को न कुर्यात् । अपितु सर्वोऽपि करोत्येव । योऽन्यस्पर्धया स्वस्य प्रतिष्ठां लिप्सति स स्वस्य न्यूनतां तस्य चाधिकतां स्वयमेव वदति । अतोऽधिकेन हीनम्यावज्ञा कर्तुं युक्तैवेत्यर्थः । प्रकृते भैम्यर्थं नलरूपं दधद्भिर्देवैर्नलस्यैवाधिकता स्वस्य च न्यूनतोक्तैव । तस्मात्तेन नलेन तेषामवज्ञा युक्तैव कृतेति भावः । स्थानेऽव्ययत्वादुचितामित्यर्थ इति वा । अवहेला इति क्षीरस्वामी। प्रतिष्ठामिति 'न लोका' इति षष्ठीनिषेधः[१]

 गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्वल्ललिताभिनेता ।
 मुदा तदाऽवैक्षत केशवस्तं स्वयंवराडम्बरमम्बरस्थः ॥ ५० ॥

 गीरिति ॥ केशवः तदा समये तं स्वयंवरस्याडम्बरं संभ्रमं मुदा हर्षेणावैक्षत । किं- भूतः-गीर्देवतया सरस्वत्या गीता कीर्तिता यशःप्रशस्तिर्यशोगौरवं यस्य। तथा-श्रिया लक्ष्म्या देहशोभया च कृत्वा तडित्वतो विद्युत्सहितसजलमेघस्य ललितं विलासस्तस्याभिनेताभिनयकारी । तादृशमेघतुल्य इत्यर्थः । तथा--अम्बरस्थो व्योमस्थः । स्वयंवरदर्शनार्थं विष्णुरपि तत्रागत इति भावः[२]

 अष्टौ तदाष्टासु हरित्सु दृष्टीः सदो दिदृक्षुर्निदिदेश देवः ।
 लैङ्गीमदृष्ट्वापि शिरःश्रियं यो दृष्टौ मृषावादितकेतकीकः ॥५१॥

 अष्टाविति ।। सदः स्वयंवरसभां दिदृक्षुर्द्रष्टुमिच्छुः देवो ब्रह्मा तदाष्टासु हरित्सु दिक्षु अष्टौ दृष्टीर्नॆत्राणि निदिदेशादिष्टवान् । किंभूतः-लैङ्गीं शिवसंबन्धिनीं शिरः श्रियं मस्तकशोभामदृष्ट्वा अविलोक्यापि दृष्टौ लिङ्गशिरोदर्शनविषये मृषावादितानृतभाषणं कारिता केतकी येन । लिङ्गरूपस्य शिवस्य पादौ शिरश्चावलोकनार्थमहमधिकोऽहमधिक इति विवदमानौ विष्णुब्रह्माणौ पातालं सत्यलोकं च गतौ । विष्णुः पाताले गत्वा शिवचरणौ नापश्यत् । ब्रह्मापि शिरो नापश्यत्। अनन्तरं विष्णुना चरणौ नाद्राक्षमिति सत्यमुक्तम् । ब्रह्मणा तु शिरो दृष्टमित्यलीकमुक्तम् । तत्र साक्षित्वेन शिवशिरःस्थाहमानीतेति कूटसाक्षिणी केतकी कृतेति पौराणिकी कथा [३]

 एकेन पर्यक्षिपदात्मनाद्रिं चक्षुर्मुरारेरभवत्परेण ।
 तैर्द्वादशात्मा दशभिस्तु शेषैर्दिशो दशालोकत लोकपूर्णाः ॥५२॥


  1. 'अत्र हेत्वलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासोपमालंकारः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासोलंकारः' इति साहित्यविद्याधरी