पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
नैषधीयचरिते

१४० नैषधीयचरिते कारान्तरं तु-धरातुरा धरावत्पृथ्वीवत् अतुरानुत्ताला, अवेगा वा सा पूर्वोक्ता प्रसिद्धा वा याच्ञाविशेषणम् । हि निश्चितम् । अन्यत्पूर्ववत् । धरवत्पर्वतवत् अतुरा वा। स्वस्थेन समयं दृष्ट्वा कर्तव्या न सोत्तालेनेत्यर्थः । यद्वा हे अहिमदर्थ अहीन्मनाति अहिमद्गरुडः तमर्थयते मित्रत्वं प्राप्तुं प्रार्थयते तत्संबोधनम् । गरुडतुल्यपराक्रम इत्यर्थः। अन्यत्पूर्ववत् ॥ निगमयति-

विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन्समयं समीक्ष्य ।
आत्यन्तिकासिद्धिविलम्बिसिद्ध्योः कार्यस्य कार्यस्य शुभा विभाति॥

 विज्ञेनेति ॥ हे हंस, तस्मात्कारणादस्मिन्नरेन्द्रे विज्ञेन विशेषज्ञेन त्वया समयमवसरं समीक्ष्य दृष्ट्वा इदं कार्यं विज्ञाप्यं विज्ञापनीयम् । समयप्रतीक्षणे कार्यविलम्बः स्यादित्याशङ्क्याह -(अस्य) कार्यस्य आत्यन्तिकी सर्वथा असिद्धिः, तथा विलम्बिनी सिद्धिः, तयोर्मध्ये आर्यस्य पूज्यस्य बुद्धिमतस्तव का सिद्धिः शुभा समीचीना विभाति प्रतिभाति । कथयेति, शेषः। असमये विज्ञापितस्य कृत्यस्य सर्वथा असिद्धिरेव । समयं विचार्य कृतस्य विलम्बेन सिद्धिः सैव ज्यायसी, तस्मात्समयं समीक्ष्य विज्ञप्ति कुर्विति भावः । आत्यन्तिकी चासावसिद्धिश्चेति कोपधत्वेऽपि 'पुंवत्कर्मधारय-' इति पुंवत् । 'लक्षणहेत्वोः-' इति ज्ञापकात् 'अल्पान्तरम्' इत्यस्यानित्यत्वात् आत्यन्तिकासिद्धि- विलम्बिसिद्ध्योरित्यत्र परनिपातः समर्थनीयः॥ बालायास्तरुणीवल्लज्जात्यागो न युक्त इत्याशङ्कय परिहरति-

इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु ।
स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्ततदवीवदत्ताम् ॥ ९७ ॥

 इतीति ॥ विनाऽमुना स्वात्मनि-' इत्याद्युक्तस्य भैम्या यल्लज्जा अलोपि सानौचिती अनौचित्यं नोऽस्माकं कवीनां चेतसि चकास्तु प्रकाशताम् । बालाया लजया भाव्यमेवेति तत्त्यागेऽस्मत्सिद्धान्तातिक्रमादस्माकं चित्ते त्वनौचित्यं स्फुरतु नामेत्यर्थः । तुः पुनरर्थे । तस्या अदोषतायां निर्दोषत्वे पुनः स्मरः साक्षी साक्षादृष्टा । कथं साक्षित्वमित्यत आह-यः काम उन्माद्य उन्मादावस्थां कृत्वा तां भैमीं तत्तत् 'विनाऽमुना-' इत्यादि बालाया युक्तमयुक्तमवीवदद्वादयति स्म । तेनैव बलाद्वादिता सा इति तस्या न दोषः। कवीनां वर्णनेऽनौचित्यं प्रातिभासिकं न तु तात्त्विकं, अनुवादत्वादिति भावः । शब्दकर्मत्वाद्वदेरण्यन्तकर्तुर्णौ कर्मत्वम् ॥ मदनेन सा किमित्युन्मादितेत्यत आह-

उन्मतमासाद्य हरः स्मरश्च द्वावप्यसीमां मुदमुद्वहेते।
पूर्वः परस्पर्धितया प्रसून नूनं द्वितीयो विरहाधिदूनम् ॥ ९ ॥


१ 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी । २ 'अत्र छेकानुप्रासः' इति साहित्यविद्याधरी।

३ 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी।