उपनतमुडुपुष्पजातमास्ते |
उपनतमिति ॥ हे प्रिये, 'रक्तो भौमः, शनिः कृष्णो, गुरुः पीतः, सितः कविः' इत्यादिज्योति शास्त्रादिप्रामाण्यान्नानावर्णाकृतीन्युडूनि नक्षत्राण्येव पुष्पजातमुपनतमुपसंपन्नमास्ते अयं मल्लक्षणो जनः प्रारब्धकामदेवपूजायास्तव परिचारकश्चन्दनाद्युपचारोपनायकः, अथच-संभोगकारी भवतु । त्वं तिलैः संजाततिलकः, तिलैरेव तिलकवान्तो वा यः पर्पटः शालितण्डुलपिष्टरचितश्चिपिटस्तिलसंकुलीसंज्ञ उपदंशविशेषस्तद्वदाभा यस्य तत्तुल्यं सकलङ्कमध्यत्वाद्विशिष्टपर्पटसदृशमिन्दुमेव निवेद्यं कामाय वितर एवं पञ्चबाणं कामदेवमुपास्स्व पूजय । अन्योपि देवपूजकः पुष्पादिसामग्र्या देवं पूजयति, कश्चित्परिचारकोपि तस्य भवति । एवमत्रापि । सर्वाणि नक्षत्राण्युदितानि, कामोद्दीपकश्चन्द्रोऽप्युदितः, सुरतान्तरायकारी निषिद्धः संध्यासमयोऽतिक्कान्तः, तस्मात्काममुपास्स्व, सुरतेच्छुरस्मीति भावः । पञ्चबाणमित्यनेन कामस्या- निपीडाकारित्वं सूच्यते । 'जातिजातं च सामान्यम्' इत्यभिधानाजातशब्दः सामान्यवाची पुष्पमात्रे पर्यवस्यति । तिलकितेति तारकादिः, मतुवन्तात् 'तत्करोति-' इति ण्यन्तान्निष्टा॥
इदानीं काव्यसमाप्तिं चिकीर्षुः श्रीहर्शो नायकमुखेनाशिषमाशास्ते-
स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भव- |
स्वर्भानुमिति | हेप्रिये, देवः प्रकाशमानस्तुषारद्युतिहिमकरः, अथच हिमकर एव देवः, वर्णनां पूजां च कुर्वतां नोऽस्मदादीनाम् , आवयोर्वा तुष्टये परमानन्दायास्तु । किंभूतःस्वर्भानो राहोः प्रतिवारं पौनःपुन्येन यत्पारणं चन्द्रस्यैव गिलनं तेन तत्र वा मिलन संलग्नो यो दन्तौघस्तद्रूपं यन्त्ंर छिद्रकरणसाधनं तस्मादुद्भवो यस्याः सा श्वभ्राली दन्तदशनकृतविवरपरम्परा तया तस्याः सकाशाद्वा पतयालुः पतनशीला दीधितिसुधा किरणामृतं तद्रूपः, दीधितिसुधाया या सारः श्रेष्ठभागो यस्य, दीधितिसुधाया आसारो धारासंपातो, दीधितिसुधारूपो वा आसारो यस्य सः । अत एव-पुप्पमेयेष्वासनं धनुर्यस्य तस्य कामस्य तत्प्रियाया रत्याश्चानयोर्यः परिणयो विवाहो लक्षणया परस्परसंमेलनं तद्रपो य आनन्दः संतोषस्तत्संबन्धिनि 'समुद्रज्येष्टा-' इ.