लावण्येनेति ॥ अखिलेन लावण्येन तव वदनमारम्भि । ततो भवद्वदनकामनीयकवर्णनानिचिन्तापि दृरे तिष्ठतु, अशक्यकरणत्वादित्यर्थः । उक्तरीत्या तत्पात्रमात्रस्पृशा प्रोञ्छनलब्धतार्धमलिनेन शेषेण तु यश्चन्द्रो विधिना निरमायि तस्य लेखाऽपि लावण्यपात्रमात्रस्थलावण्यनिर्मितस्य चन्द्रस्य षोडशांशरूपा कलापि कलामात्रत्वादेव निष्कलकत्वात् मुषमया परमया शोभया कृत्वा अहंकृत्य अस्यापेक्षयाहमेव रमणीयति दर्पमवलम्ब्य शंभोः शिखामणिः शिरोभूषणमभूच्छिवशिरोध्यरोहत् । अन्यदपि सदर्पमुत्तशिरोऽधिरोहति । अलं कुमुदं कर्तृ यद्यस्मात्तस्य चन्द्रस्य पदं प्रतिबिम्बस्थानं जलमस्पृशत् । अतः श्रियः सद्माभूत् । चन्द्रकरस्पर्शादेव हि कुमुदं सश्रीकं भवति । पद्मं च श्रियः सद्माभूत् जलस्य चन्द्रकिरणसंस्पर्शात् , पद्मस्य च तत्रोत्पन्नत्वाद्वर्तमानत्वान्कुमुदसाहचर्याच्च पद्ममपि लक्ष्म्याः स्थानमभूत्।यद्वा-पद्मं चातः कुमुदाद्धेताः श्रियः समाभृत् । अजत्वजातियोगात्कुमुदाधारजलयोगाच्च कुमुदादेव परम्परया पद्मानां लक्ष्मीगृहन्मभूदित्यर्थः । यद्वा-या तल्लेखा शंभोः शिख़ामणिरभूत् , तस्य शिखामणेश्चन्द्रभ्य पदं स्थानं शिवमस्तकं पूजासमये यस्मात्कुमुदं पद्मं चास्पृशत् , अतस्तदुभयं श्रियः समाभूत । चन्द्रसंबद्धशिरःसंबन्धादुभयं श्रीगृहमभूदित्यर्थः। यद्वा तस्य शंभोः पदं चरणं पूजावशाद्यस्मात्कुमुदं पद्मं चास्पृशत् , तस्मादुभयं श्रीसद्माभूत , तम्य लावण्यम्य स्थानं विधिहस्तलेपक्षालनजलं यस्मात्कुमुदं पद्मं चास्पृशत् । यद्वा ---पद्ममेवास्पृशत् । यतोऽलं तस्मात्कुमुदम् , पद्मं च पद्ममेव वा श्रीसद्माभृदिनि वा । त्वन्मुखलावण्यलेशपरम्परासंस्पर्शप्राप्तशोभानि चन्द्रादीनीति त्वन्मुखलावण्यं वाङ्मनसगोचरो न भवतीति भावः । अर्थान्तरस्य स्पष्टत्वात् , पूर्वार्धस्य त्व- र्थान्तरप्रतिपादनार्थमनुवादरूपत्वान्नायं श्लोकः पुनरुक्तः । अहमिति विभक्तिप्रतिरूपकमव्ययं, तस्य कान्तेन 'सह स्नुपा' इति समासे क्त्वो ल्यप् ॥
सपीतेः संप्रीतेरजनि रजनीशः परिषदा |
सपीतेरिति ॥हे प्रिये, संप्रीतेस्ताराणामेवान्योन्यं सम्यग्या प्रीतिः सौहार्दं तस्माद्धेतोर्या सपीतिः सह पानं, सुहृदो हि सह पानं कुर्वन्ति, तस्माद्धेतोः, यद्वा सहपानाद्धेतोर्या सम्यक् प्रीतिरूच्यभिवृद्धिः, तस्माद्धेतोस्ताराणां परिषदा सङ्घेन परीतः समन्ताव्धाप्तोऽयं रजनीशो दिनमणिमणिः सूर्यकान्तमणिस्तस्य ग्रावा शिला तया घटितोडतिधवलः स्थूलः पेयद्रव्याधारभूतो मणिकोऽलिंजर एवाजनि संभूतः विधिना तारापरिषदा वा व्यरचीति पश्य । कीदृशः-सादृश्येन वस्त्वन्तरसंभावनारूपायामुत्प्रेक्षायां विषये कविभिर्विशिष्टसंभावनाचतुरैः श्रीहर्षादिभिर्महाकविभिस्तारापरिपदैव सुधामभ्युद्धर्तुं धृतो यो मध्यस्थितः शशकः कलङ्कः स एव नीलाश्मा नीलमणिस्तेन घटितं चषकं पानपात्रं यस्मिन्नैवंभूत इवायमिति अभिधानाय वर्णनाय वर्ण-