पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००१
द्वाविंशः सर्गः।

दिने मम द्वेषिणि कोदृगेषां प्रचार इत्याकलनाय चारीः ।
छाया विधाय प्रतिवस्तुलग्नाः प्रावेशयत्प्रष्टुमिवान्धकारः ॥ ३९ ॥

 दिन इति ॥ अन्धकार इत्याकलनाय सामस्त्येन ज्ञानार्थं प्रतिवस्तुलग्नाः पदार्थमात्रसम्बद्धाः प्रतिच्छाया एव चारीर्गूढार्थवेदिकाश्चारनारीः विधाय चारपदं ताभ्यो दत्त्वा दिनं प्रति सम्प्रेष्य समागतास्तास्तत्रत्यवृत्तान्तं पृष्टमिव पुनः प्रावेशयत् निजनैकट्यमित्यर्थात् । इति किम्-ममान्धकारस्य द्वेषिणि मामसहमाने दिने विषये एषां वस्तूनां कीदृक् प्रचारो विहरणम् स्नेहादिव्यवहारश्चेति । दिवा प्रतिपदार्थसम्बद्धाछाया एव रात्री समागत्य मिलिता निजस्वामिनमन्धकारं प्राविशन् । रात्रौ हि प्रकाशाभावे छाया अन्धकारेण सहैकीभवतीति तत्सम्बन्धादेव महानन्धकारः प्रतीयत इति भावः । एतेन प्रतिच्छायापि तम एवेति वर्णितम् । अन्योपि रात्रौ लोकस्थितिं ज्ञातुकामः स्त्रीणां सर्वत्र प्रवेष्टुं शक्यत्वाच्चारनारीः सम्प्रेष्य तत्रत्यं वृत्तान्तं विचार्य समागतास्ताः प्रष्टुमात्मसविधं प्रवेशयति । छाया एव चारीः प्रतिवस्तुलग्ना विधायेति वा । चारपदं दत्त्वा पदिनः प्रत्येकं प्रेषयामास । अत एव ता दिने प्रतिवस्तुलग्ना दृश्यन्त इति वा । चारीः, पुंयोगान्ङीष् ॥

 इदानीं चन्द्रोदयं वर्णयितुमुपक्रमते-

ध्वान्तस्य तेन क्रियमाणयेत्थं द्विषः शशी वर्णनया[१]ऽथ रुष्टः ।
उद्यन्नुपाश्लोकि जपारुणश्रीर्नराधिपेनानुनयेच्छयेव ॥ ४० ॥

 ध्वान्तस्येति ॥ तेन नराधिपेन नलेन इत्थं क्रियमाणया द्विषः शत्रुभूतस्य ध्वान्तस्य वर्णनया रुष्टः शुद्ध इव जपाकुसुमवदरुणा श्रीर्यस्य स उद्यन्नुदयं प्राप्नुवन् शशी तेनैव राज्ञाथानन्तरमनुनयेच्छयेव प्रसादनवाञ्छयेवोपाश्लोकि श्लोकैः स्तोतुमारम्भि । अन्योपि वैरिवर्णनया रुष्टः सन्नरुणो भवति तत्परिहारार्थमुदितः सन् वर्णकेन प्रसादनार्थं स्तृयते । प्रतीयमानोत्प्रेक्षा । इवशब्दस्योभयत्र योजना वा । उपाश्लोकि 'सत्या-' इति णिजन्तात्कर्मणि चिण् ॥

पश्यावृतोप्यंष निमेषमद्रेरधित्यकाभूमितिरस्करिण्या ।
प्रवर्षति प्रेयसि चन्द्रिकाभिश्चकोरचञ्चूचुलुकप्रमिन्दुः ॥ ४१ ॥

 पश्येति ॥ है प्रेयसि, प्राणप्रिये, एष इन्दुश्चन्द्रिकाभिश्चकोराणां चन्द्रिकास्रवदमृतपायिनां पक्षिणाञ्चञ्च्व एव चुलुकास्तान्पूरयित्वा प्रकर्षेण वर्षति सुधामित्यर्थात् । यावता चकोरचञ्चपूरणं भवति तावत्प्रमाणं वर्षतीत्यर्थः । त्वं पश्य । किम्भूतः-अद्रेरुदयाचलस्याधिस्यकाभूम्योर्ध्वशिखरेणैव तिरस्करिण्या जवनिकया निमेषलक्षणमत्यल्पकालमावृतोऽपि सन् । सम्पूर्णानुदितोऽपि प्रथमचन्द्रिकाभिरेव चकोराणामानन्दं करोति



  1. 'वर्णनयेव' इत्यपि पाठ: -इति सुखावबोधा।