पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
द्वितीयः सर्गः

 उदरमिति ॥ कोपि कुतुकी दमस्वसुरुदरं मुष्टिना इयत्तया परिमाति व्यवच्छिनत्ति । किमु उत्प्रेक्षे । यद्यस्मात्तदुदरं सहेमकाञ्चिभिः सुवर्णमेखलासहिताभिर्वलिभिः कृत्वा धृतास्तस्य मुष्टेश्चतस्र अङ्गुलयो येन एवंविधमिव भाति । तिस्रो वलयश्चतुर्थी हेमकाञ्ची च । चतस्रोऽङ्गुलयस्तस्य मुष्टेरित्यर्थः । को ब्रह्मा । अपिरेवार्थः । ब्रह्मवेत्यर्थः ।

पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया ।
विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥३६॥

 पृथ्विति ॥ विधिर्ब्रह्मा मान्मथं कामसंबन्धिनं रथं निर्मित्सति । किमु उत्प्रेक्षायाम् । किंभूतो विधिः-मिहिरः सूर्यस्तस्य स्यन्दनो रथस्तस्य शिल्पं निर्माणं तस्य शिक्षयाभ्यासेन पृथुं महान्तं वर्तुलं तस्या भैम्या नितम्बं करोतीति कृत् । किंभूतं रथम् - एककेनासहायेन चक्रेण चरति एवंशीलम् । सूर्यरथैकचक्रनिर्माणाभ्यासेन ब्रह्मणा भैमीनितम्बः कृतः स कामरथत्वेनोत्प्रेक्षितः । नितम्बदर्शनान्मदप्रादुर्भावो भवतीति भावः । निर्मित्सति । माङः 'सनि मीमा-' इत्यादिना अच इसू 'अत्र लोपोऽभ्यासस्य' ॥


तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् ।
तरुणीमपि जिष्णुरेव तां धनदापत्यतपःफलस्तनीम् ॥ ३७ ॥

 तरुमिति ॥ हे राजन्, सुन्दरी भैमी परिणाहिना विशालेनोरुयुगेनोरुद्वयेन तरुं वृक्षरूपां रम्भां कदलीं परं केवलं जिष्णुर्जयनशीलेति किमु वक्तव्यम् । अपि त्वेवं न वाच्यम् । किंतु तरुणीमपि तां रम्भामप्सरोविशेषमपि जिष्णुरेव । किंभूताम्-धनदापत्यस्य कुबेरपुत्रस्य नलकूबरस्य तपसः फलं स्तनौ यस्याः । यदर्थं नलकूबरेण तपः कृतं तां रम्भाम् । कदलीमप्यूरुयुगेन जितवतीत्यर्थः। द्वयेन द्वयं जितम् । परिणाहो विशालता' इत्यमरः । 'रम्भा कदल्यप्सरसोः' इति विश्वः । 'न लोका-' इति निषेधात्तरुमिति द्वितीया । सुन्दरी । गौरादित्वान्ङीष् ॥

जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः ।
ध्रुवमेत्य रुतः सहंसकीकुरुतस्ते विधिपत्रदंपती ॥ ३८ ॥

 जलजे इति ॥ ये जलजे कमले रवेः सूर्यस्य सेवयेवैतस्या भैम्याः पदतां चरणत्वं पदमुत्तमस्थानं, व्याजं चावापतुः प्रापतुरिति ध्रुवमुत्प्रेक्षते । विधिपत्रदंपती ब्रह्मवाहनपक्षिजायापती हंसस्त्रीपुंसौ कर्तारौ ते जलजे कर्मणी एत्यागत्य रुतः शब्दात्सहंसकीकुरुतः हंससहिते कुरुतः। हंसरवतुल्याच्छिञ्जितादेते सहंसे इत्यनुमीयत इत्यर्थः । हंसकः पादकटकस्तत्सहिते नूपुरयुक्ते कुरुतः। विधिहंसमिथुनमेतन्नूपुरत्वेन परिणतमित्यर्थः। रविसेवया पद्मयोर्भैमीपदत्वप्राप्तिः। विधिसेवया हंसानामेतच्चरणस्थानप्रा-


 १ 'अत्रोत्प्रेक्षोपमा चालंकारः' इति साहित्यविद्याधरी । 'अत्रोत्प्रेक्षयोर्हेतुहेतुमद्भूतयोरङ्गाङ्गिभावेन सजातीयः संकरः' इति जीवातुः । २ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । ३ अत्रोत्प्रेक्षालंकारः, 'रम्भाशब्दः श्लिष्टः फलशब्देऽपि' इति साहित्यविद्याधरी ।