पृष्ठम्:तिलकमञ्जरी.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी ३६९

माणप्रचुरकर्पूरचूर्णमुष्टिः, स्पष्टुमिव गात्रयष्टिमारब्धमधुरसवाहना, स्वयं प्रियसखीगणेन क्षणं संमुखपरावर्तिताङ्गा, क्षणमुत्तरीयेणार्धावगुण्ठितोतमाङ्गा, क्षणमुपविश्य मत्तवारणके कृतावष्टम्भा, क्षणमुत्थाय प्रकटितामङ्गमारब्धजृम्भाविजृम्भितपृथुश्रमव्यथे वा पृष्ठमन्मथोपदिष्टमभिनवं रसविशेषमनुभवन्ती सुचिरमस्थात् ।  दृष्ट्वा च मामलक्षितैरक्षिविक्षेपैरप्रतः समग्रकलाधिगमलब्धवैदग्ध्याभिः शुद्धान्तयुवतिभिरनेकधा प्रवर्तितविनोदमुपजातपरमप्रमोदा ततः प्रासादवातायनादुदतिष्ठत् । अहमपि तया शून्यीकृतमवेक्ष्य तं गवाक्षमुद्दतोद्वेगवेगस्तदुच्छेदवाञ्छया रुक्षेव सर्वदा समासन्नचन्दनार्जुनतिलकमञ्जरीकमन्तःपुरोपवनमव्रजम् ।

 भ्रन्त्वा च तत्रातिचिरं स्मरायतनरक्ताशोकतलनिषण्णमासन्नसेवाचतुरकतिपयान्तःपुरचारिपरिचारकपरीतमल्पवेत्रवारीवृन्दपरिगता समागता सत्वरमनन्तरा भन्दुरायाः प्रतीहारी हरिणिका नाम विहितप्रणामा मामवोचत्-'कुमार, संपति प्रासादशिखरावतीर्णा विज्ञापयति देवी तिलकमञ्जरी-मजनपुरःसरमहाय मध्याहिकं निर्मापयतु कर्मक्रम कुमारः । प्रथममेवाद्य चिरकालादुपागता निरन्तरव्रतनियमोपवासक्लेशविशेषकर्षि(शि)ताङ्गी न युज्यते निर्निमित्चमाहारवेलातिक्रम कारयितुमार्या मलयसुन्दरी । पुनः कदाचिद्रष्टव्यमुद्यानम् ।' अहं तु तच्छ्रुत्वा 'यथाह देवी' इत्यभिधाय तत्कालमेव प्रचलितः पादपतलादनुगम्यमानः सविधचारिणा जनेन तमेव प्राक्तनं स्ववाससमणिमण्डपमुपागमम् ।  'तत्र च समाहृतसमग्रखानमालोपकरणाभिरनुपालयन्तीमिरागमनमुन्मुखीभिर्मजनबालिकाभिरभिनन्दितदर्शनः खात्वा सुचिरमुत्थाय द्विप्र २४ वि. म.