पृष्ठम्:तिलकमञ्जरी.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३१३ कुमार्येण मजजगतमपि मुष्णता विरदाहोष्माणमानयतेव संनिपातनिद्रामिन्द्रियाणां रचयतेव चन्दनद्रवेण चर्चामावरणमन्तःकरणस्य क्षिपतेव क्षीरसागरोदरे निरवशेषानवयवान्परिणमयतेव शारदज्योत्सारूपेण शरीरमेकीकुर्वतेव प्रतिपाणिस्थितानि सकलान्यपि त्रैलोक्यमुखान्यसंख्यैरपि निदर्शनैरनावेद्यहृद्यताखरूपेण सारमिव सुधारसस्य सत्त्वमिव शंकरशिरःशशिकलाशैत्यस्य सकलमादाय विधिनोत्पादितेन समुद्रपातसमयेऽप्यनासादितपूर्वेण स्वप्नान्तरेष्वपि निद्रालाभविरहादलब्धेन पुनरलभ्योऽयमनयेति जातकरुणेनेव मकरकेतुना परां खादुतानीतेन भाविता तस्य सकलगात्रस्पर्शन व्यवधानहेतुरिति पुलकजालकोद्रेदमपि निन्दन्ती कुङ्कुमानरागमपि विपक्षपक्षे स्थापयन्ती भूषणप्रभावितानमपि विन्नमवधारयन्ती धृतरांसमानजघनस्तनांशुकेन खेदसलिलेनापि दूयमाना शरीराधैन लब्धप्रियागसङ्गामचलकन्यामप्युपहसन्ती सहसैव विह्वलतामगच्छम् ।

 दृष्ट्वा च मां तथाविधां क्षणेनैवान्यथाभावमुपगतामुत्पन्नसाध्वसा बन्धुसुन्दरी सादरमवादीत्—'भर्तृदारिके, किमेवं पुनरपि स्थिता त्वमवस्था । कथय किं ते वपुषि बाधाकृत्' इत्यसकृदनुबध्यमाना बद्धोत्कम्पया सगद्दाक्षरोद्वारमनया शनैः शनैरुत्थाय कृतशिरोवगुण्ठना तस्य नृपकुमारस्याङ्कपर्यज्ञादेकदेशे कमलिनीपलाशशयनस्योपाविशम् ।

 अत्रान्तरे सा मुक्ततारकरुणफूत्कारा निधाय मज्जानुनोरुपरि मूर्धानमनवरतनिपतद्वाप्पसंहतिरभिनवानि शुद्धान्तनिर्गमात्मभूतिकाननान्तरुपजातान्युदीर्योदीर्य दारुणानि दुःखानि पूर्वकालमनुभूतानि च


१. मजनि गतं विरहदाहोष्माणं मुष्णता. २. सादरं पृच्छयमाना.