पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ ज्यौतिषसिद्धान्तसंग्रहे अगस्त्यस्य सुनेस्तात कर्कटादौ स्थितिः स्मृता । याम्य दिक्कच विचेपः प्रोक्तस्तस्य खकुञ्ज ८० ॥ ६ ॥ 1 लुब्धकस्य खनागां-७ मा याम्ये वायाः खसागराः ४० । वहेर्द्विबाणा: ५२ सौम्येपु- गजा ८ ब्रह्महृदस्तथा ॥ १० ॥ बाणा: खाग्निमिता: ३० सौम्ये नगवायाः ५७ प्रजापते: । तस्य वाणांशकाः प्रोक्ताः सौम्ये कुञ्चरवह्नयः ३८ ॥ ११ ॥ पांचपयोर्भे सौम्ये पञ्च ५ रसाः ६ शराः । निरनदेशे सृथ्याशै रात्स्यितियोदिता ॥ १२ ॥ वर्त्तमानयुगे गोलं विरचय्य द्विजोत्तम । तारकाणां स्थितिः साध्या तथा विक्षेपकांगकाः ॥ १३ ॥ स्थितिर्यस्याद्विवेदां४२ शे विष्ठेपोऽभ्यधिको द्वयात् । भागात् किञ्चित् तदा भिन्द्या- द्रोहिण्याः शकटं हसः ॥ १४ ॥