पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ आनन्दगिरिकृतीकासंचलितशांकरभाष्यसमेता-२ द्वितीयाध्यायें- साध्वितिपदं सर्वत्र द्रष्टव्यमित्याह-इति सर्वत्रेति । सर्वत्रेत्यस्य व्याख्या-पञ्चविध इत्यादि ॥ ३ ॥ इति द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ २॥ (अथ द्वितीयाध्यायस्य तृतीयः खण्डः।) वृष्टौ पञ्चविध सामोपासीत पुरोवातो हिंकारों मेघो जायते स प्रस्तावो वर्षति स उद्भीयो विद्यो- तने स्तनयति स प्रतिहारः ॥ १॥ वृष्टौ पञ्चविध सामोपासीत । लोकस्थितेवष्टिनिमित्तत्वादानन्तर्यम् । पुरों- घातो हिंकारः । पुरोवाताद्युद्ग्रहणान्ता हि दृष्टिः । यथा साम हिंकारादिनि- धनान्तम् । अतः पुरोवातो हिंकारः । प्राथम्यात् । मेघो जायते स प्रस्तावः ।। प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः । वति स उद्भीयः श्रेष्ठयात् । विद्योतते स्तनयति स प्रतिहारः । प्रतिहृतत्वात् ॥ १॥ ननु लोकदृष्टया सामोपात्यनन्तरं किमिति वृष्टिदृष्ट्या तदुपास्तिरुपन्यस्यते तत्राऽऽह- लोकस्थितेरिति । पुरोवातदृष्टया हिंकारोपासने हेतुमाह-पुरोवातादीति । उद्ग्रहणं वर्षोपसंहरणम् । अतःशब्दार्थमाह-प्राथम्यादिति । मेघजन्मदृष्टया प्रस्तावोपास्तौ हेतमाह-प्रावषीति । वर्षणदृष्टयोद्गीथोपार्सने हेतुमाह-श्रेष्ठयादिति । विद्योतनस्त- नयित्नुदृष्टया प्रतिहारोपासने कारणमाह-प्रतिहृतत्वादिति । विद्युतां स्तनयित्नूना च प्रतिकृतत्वं विप्रकीर्णत्वं तेन प्रतिशब्दसादृश्याद्विद्योतनादिदृष्टया कर्तव्या. प्रतिहारोपास्ति-- रित्यर्थः ॥१॥ उदगृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविध सामोपास्ते ॥ २॥ इति द्वितीयाध्यायस्य तृतीयः खण्डः ॥ ३॥ उद्गृह्णाति. तबिधनम् । समाप्तिसामान्यात्. । फलमुपासनस्य--वति १ क. ख. . मेवोपज° १.२ ५. ऊ. "ति प्र । ३. ख. घ. त । यदुद्ग। ४. क-