पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्र यावता पुनरावृत्तिः प्रायेण तत्रैव विरतेईट्यमानतया तदनुरोधाद् द्विदलत्वं चतुष्पदत्वं षट्पदत्वं वा व्यवस्थाप्यते । अत एव तत्र नियता पादानुरोधिनी छन्दः सिद्धिः । पादत्वं च पुनरावर्तमानत्वे सतेि विरातिमन्पदत्वम् । यतिमत्पदस्यावृत्तर्विर त्यन्तरितया विरतिमत्पदेतरतया च नैनस्य पादत्वमभ्युपगच्छन्ति । अर्धसमविष मादौ तु पादव्यवहारो ‘रजकाय वत्रं ददातीत्यादौ दानव्यवहारवद् भाक्तः । पुनरावर्तमानत्वाभावेऽपि विरतिमत्पदत्वानुवर्तनात्नत्वोपपत्तेः । अन्नो नास्ति लौकि कानामनुपपात्तः । अथ वैदिकच्छन्दति अश्विभ्यां प्रातःसवनमिन्द्रेणैन्द्रं माध्यन्दिनम् । वैश्वदेव्यं सरखत्या तृतीयंमाप्त सवनम् ॥ १ इत्येवमनुष्टबादौ गत्यभावेऽपि छन्दःसिद्धिदर्शनादक्षरगणनैव तन्त्रं, न गतिः । अत एव गतिबलापतितायाः पञ्चविधाया यतेरपि नैवापेक्षा । दैविकार्यविज्ञानसापेक्षं हि वैदिकानां प्रवृत्तेस्तत्र देवखरूपसिद्धयुपयुक्ताक्षरगणनापेक्षौचित्येऽपि श्रुतिरञ्जनोपयुक्ता या गतेरनुपयोगात् । तस्मादप्रसक्त गतियती नाय्यें प्रसक्त तु तेन निवार्येते । पाद व्यवस्था तु यत्यनपेक्षायामपि नूनमपेक्ष्यते । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।” (ऋ.सं. ८॥४॥१७) इत्यादिभिर्देवेष्वपि पादध्यवस्थाया दृश्यमानत्वात् । तत्र च पादश्छन्दसो भक्ति विशेषः, स च स्थूलभेदेन संपूर्ण छन्द एव वा द्वितीयस्तृतीयश्चतुर्थः पञ्चमादिको यथाविवक्षमपेक्ष्यते । तदनुरोधेनैव गायत्र्यादींना एकपदी द्विपदी त्रिपदीत्यादिभि शकुमतीककुद्मतीयवमध्याभुरिगादिभेदैश्वानेकधात्वसंसाधनात् । तथा च नास्येव वैदिकानामप्यनुपपत्तिरिति भाव्यम् । इतेि छन्द:पदवादः । अथ छन्द:पदसंहितावाद ननु चतुष्पद्या विषमपादान्ते सन्धिकार्याणि दृश्यन्ते, न तथा समपादान्ते, तत्र को हेतुः? । अत्र वदन्ति-पदं हि चतुष्पात्त्वसाधम्र्यात् पशुवद् द्रष्टव्यम् । पश्नां हि पादेषु द्वन्द्वे द्वन्द्वं, संनिकृष्यते चाग्रिमाद् द्वन्द्वात्पश्चिमं द्वन्द्वम् । एवमेव पद्यानां पादेषु प्रथमं द्वयमुत्तमं च द्वयं पृथक् पृथक् संनिधते; तस्मात्तत्र तत्र संहिताकार्याणि भवन्ति । समपादान्ते तु संनिकर्षाभावात् संहिताकार्याणि निवर्तन्ते, ‘परः सन्निकर्षः संहिता' (पा.व्या.सु. १॥४॥१०९) इति सिद्धान्तात् । अथ पुनः कश्चित् प्रत्यवतिष्ठते । कश्चायं परः संनिकर्षः ? । यदि हि खारसिकाथै मात्राकालाधिककालव्यवायाभावः संहितेतीष्यते, तर्हि नूनमिहापि विषमपादान्ते संहिताकार्याणि निवर्तेरन् ; यजुःप्रातिशाख्यपञ्चमाध्यायस्य प्रथमसूत्रे–“समासोऽव