पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताया अपि ‘पितुभृतो नेत्यस्याः (१०॥१७२॥३) ऋचश्चतु माख्यातं वेदार्थदीपिकायाम् द्वादशाक्षरयोर्मध्ये पादावष्टाक्षरौ यदि यस्याः संस्तारपङ्किः स्यात् पितुभृतो न तन्तुमित् ॥’ इति द्विद्विपदास्त्वृचः समामनन्तीति’ (सर्वोर्नु) सूत्रयता भगवता काल्यायनेनापि द्विपदा त्वेनाभिप्रेतानां सर्वासामेव ऋचां शंसनकाले ताभ्यां द्वाभ्यामेव पादाभ्यां छन्दःपूर्ति तु द्वयोर्द्धिपदयोश्चतुर्भिः पादैश्छन्दःपूर्तिरभिप्रेयते । तेन यासां शंसने दशर्चत्वं, तासामेवाध्ययने पुनः पञ्चर्वत्वमिति सुप्रसिद्धं याज्ञिकानाम् । एवं षङ्गिर्गाय त्रेजंगतीकारतया एकमेव महापङ्गिच्छन्द इष्यते, न तु गायत्रीद्वयसमुच्चयः । आनुष्टुभे प्रगाशे तु दशभिर्गायत्रैरनुष्टुभो गायत्रीद्वयस्य च समुच्चयेन तृचः प्रगाथ इष्यते न त्वेवैकं छन्दो नवानुष्टुब्महापङ्किसमुच्चय इत्यप्यवधेयम् ॥ अथापि च यत्रैवं द्वयोस्रयाणां चतुण वाधिकानां वा समुच्चयस्तत्र द्विपात्, त्रिपात्, चतुष्पादिलेवं पादव्यवस्थामि च्छन्ति । सेयं पादव्यवस्थापि नूनं विवक्षाधीनैव । उत्तरोत्तरप्रस्तारखरूपे पूर्वपूर्व एकपदया. चतुष्पात्वस्य त्वात् । यथा द्वाभ्यां पङ्किभ्यामेका चम्पकमाला भवति, यथा वा पञ्चचामरम्, प्रमाणिकाद्वैगुण्येन गीतिका च जायते । इत्थमन्यदपि द्रष्टव्यम् । अत एव सुरशुभवाके नहि गुणदोषौ जगुरिति केचेिन्न च पुनरन्ये शुभमशुभं यत्फलमिदमुक्तं नृपवर युक्त प्रथमगणे तत् इत्यत्र यदि विवक्ष्यते-द्वौ श्लोकौ संभवतः । यद्वा विवक्ष्यते—एक एव श्लोक स्यात् । अथ विवक्ष्यते-श्लोकार्धमेवेदं संभवतीतेि पश्यन्ति । अथ यतचैकपादपि छन्दो भवति, तस्मान्न पादसिद्धिश्छन्दःसिद्धौ विशिष्योपयु ज्यते; किंत्ववच्छेदसियैव छन्दःखरूपसिद्धिर्भवतीति विज्ञेयम् । यस्य कस्याप्यर्थस्य शब्दस्य वा यथाकथंचित्क्रियमाणोऽवच्छेद एव तदर्थस्य शब्दस्य वा छन्दः । सर्वोऽ प्यर्थः खच्छन्दसावच्छिन्नो भवति । यतु-विच्छित्तिविशेषोऽप्यत्रान्यदान्तरं छन्द शिल्पापरपर्यायमाख्यायते, ‘शिल्पं छन्द’ इति श्रुते देव ! यदि ह्ययमवच्छेदो नाम धर्मो जगति न स्यात्तर्हि जगदेवेदं न स्यात्, जगदन्तर्गतं वा यः किंचित् । एकमेव हीदं सत्यं ब्रह्म तदवच्छेदमाहात्म्यादनेकधात्वेन प्रतिपद्यमानं जगद्भः वति, तदन्तर्गतं वा यत्किंचित् । ऊरूद्रोग्रीवाशिरोहस्तपादाद्यवच्छेदान्मनुष्य वत् । यथा ह्येकस्मिन् वेतपत्रे शिल्पिकृतानेकभङ्गिरेखावच्छेदमाहात्म्याद् गार पुरुषो हस्तीलेयेवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते न त तत्रा