पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ अथ वष्टम्भस्य गतिखरूपसंपादकतया च गतिप्रहणे तद्भहणसंभवः । तस्मादासां गति यतिपरिच्छित्तीनां नैकान्ततोऽर्थान्तरत्वमुपलभामहे-इति सिद्धमासामैकथ्र्यम् ॥ एक् मेवावष्टम्भप्रयोजकत्वाप्रयोजकत्वोपलक्षितपौर्वापर्येणावस्वितानां मसजादिगणानामेव छन्दस्त्वादस्य छन्दसो यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति अथापि ‘स राजा संवृत्तः’ ‘स पाचवको जातः’ ‘स नेदानीं कुण्डली न दण्डी' इत्यादिषु विधिनिषेधक्योर्विशेष्यव्यप दिष्टयोरपि विशेषणमात्रविश्रान्तिवदिहापि लघवान्मसञ्चादिगणसमवेतस्य तत् र्वापर्ययैव छन्दस्त्वसिद्धा छन्दसो गतियतिपरिच्छित्यनतिरिक्तत्वं फलतीलयलं छन्द सोऽर्थान्तरत्वपरिष्कारेण; इति-चेद्-अत्रोच्यते-मसजोत्तरसगणचरमावयवोत्तर त्वावच्छेदेन ततगाव्यवहितपूर्वत्वावच्छेदेन च वर्तमानोऽयमवष्टम्भस्तावञ्च गतिर्न चा ध्वपरिच्छित्तिर्न वा छन्दः; गत्यादीनामवष्टम्भवद्देशविशेषे नियतत्वाभावात् ॥ १ ॥ अवष्टम्भप्रयोजकत्वोपलक्षितौर्वापर्यस्य गतिरूपता तस्य गतिरूपसंपादकत्वेऽपि तत्त्वासंभवात् ॥ न चाध्वपरिच्छित्तिः, गतेर्हि खमार्गात् प्रच्यवमानायाः कृिष्टत्वं कुरूपत्वमनुभूयते । यतश्च तस्याः सौ. सौन्दर्य वा सिध्यति साध्वपरिच्छित्तिरिति गत्यवयवसंनिवेशविशेषरूपायास्तस्या गति. संमवात् । वक स्थूलत्वकृशत्वसाम्येनानुचावचशीर्षपादादिसाम्येन दिक्साम्येन च वर्णादिलिपीनां सौन्दर्ये वाचनसौकर्य चानुभूयते, तदभावेन च बालकादिलिपीनां कुरूपत्वं वाचक् कृिष्टत्वं च । तथा च तत्र लिप्यध्वपरिच्छितेर्लिप्यतिरिक्तत्ववदिहापि गल्यध्वप:ि च्छितेर्गल्यतिरिक्तत्वं सुवचमिति द्रष्टव्यम् । न वा छन्दः–विलक्षणगणपौर्वापर्वनि वन्धनायां गतो मात्राव्यवस्थानिबन्धनच्छन्दस्त्वासंभवात् ॥ २ ॥ अथेयमध्वपः च्छितिर्नावष्टम्भो न वा गतिः । विशेषस्य संसाधितत्वात् । न वा छन्दः-गत्वक् वसंनिवेशविशेषरूपायामध्वपरिच्छित मात्राळयवस्थानिबन्धनच्छन्दस्त्वस्याप्यसंप्राप्तः ॥ ३ ॥ अत एव वेदं छन्दो गतियतिपरिच्छित्तिभ्योऽतिरिच्य प्रतिपद्यते-इतीत्थमेषा मर्थान्तरत्वं संसिद्धम् । अत एव ‘न वृत्तदोषात् पृथग् यतिदोषो वृत्तस्य यत्यात्मकत्वा दिति पूर्वपक्षीकृत्य-न, लक्षणस्य पृथक्त्वादिति' समाहितं वामनेन काव्यालङ्कारसूत्रेषु । यत्तु केचित् अन्येषामर्थान्तरत्वेऽपि छन्दोगत्योरैकथ्र्यमेवाभ्युपगच्छन्ति, तदसत्। यते श्छन्दोधर्मिकत्वसंभवेऽपि छन्दस्त्वासंभवादित्यलम् ॥ इति छन्दसोऽर्थान्तरतावादः । अथ छन्दोविभक्तिवाद अथेदं छन्दः पञ्चधा-अनादिष्टच्छन्दः, बृहच्छन्दः, अतिच्छन्दः, कृतिच्छन्दः, प्रचितिच्छन्दश्वेति भेदात् । तत्र पञ्चानादिष्टच्छन्दांसि-उक्तमत्युक्तं मध्यं प्रतिष्ठा सुप्र तिष्ठा चेति । अथ सप्त बृहच्छन्दांसि-गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्किः, त्रिष्टुप्, जगती चेति । तथा सप्तातिच्छन्दांसि-अतिजगती, शक्करी, अतिशङ्करी,